________________
१०४
ज्योतिष्करण्डकम्
तइयंमि ओमरत्तं कायव्वं सत्तमंमि पक्खंमि । वासहिमगिम्हकाले चाउम्मासे विधीयते ॥ ११२ ॥ पाडवय ओमरते कइया बिइया समपिहि तिही ? | बिइया वा तइया ? तइयाए वा चउत्थीओ उ ? ॥ ११३ ॥
सेसासु चेव काहिइ तिहीसु ववहारगणियदिट्ठासु ।
सुहुमेण परिल्लतिही संजायइ कम्मि पव्वंमि ? ॥ ११४ ॥
इह कालस्त्रिधा, तद्यथा - वर्षाकालो हिम:- हिमसम्बन्धी, शीतकाल इत्यर्थः, ग्रीष्मकालश्च, एते च त्रयोऽपि चतुर्मासकप्रमाणाः, तत्र वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेस्तृतीये पर्वणि प्रथमोऽवमरात्रः, तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि द्वितीयोऽवमरात्रः, तदनन्तरं शीतकालस्य तृीतये पर्वणि मूलापेक्षया एकादशे तृतीयो - ऽवमरात्रः, तस्यैव शीतकालस्य सप्तमे पर्वणि मूलात्पंचदशे चतुर्थः, तदनन्तरं ग्रीष्मकालस्य तृतीये पर्वणि मूलापेक्षयैकोनविंशतितमे पंचमः, तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमे षष्ठः । इहाषाढाद्या लोके ऋतवः प्रसिद्धिमैयरुः, ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिमागहान्या वर्षाकालादिगतेषु तृतीयादिपर्वसु यथोक्ता अवमरात्रा: प्रतिपाद्यन्ते, परमार्थतः पुनः श्रावणबहुलपक्षप्रतिपल्लक्षणाद् युगादित आरभ्य चतुश्चतुष्पर्वातिक्रमे वेदितव्याः ॥ ११२ ॥ अथ युगादितः कतिपर्वातिक्रमे कस्यां तिथाववमरात्रीभूतायां तया सह का तिथिः परिसमाप्तिमुपैति ? इति शिष्यः प्रश्नं करिष्यति - इह प्रतिपद आरभ्य यावत्पंचदशी तावत्यस्तिथयः, तासां च मध्ये प्रतिपद्यवमरात्रीभूतायां सत्यां कस्मिन् 'पर्वणि' पक्षे द्वितीया तिथिः समाप्स्यति ? - प्रतिपदा सैकस्मिन्नहोरात्रे समाप्तिमुपयास्यति ? द्वितीयायां वा तिथाववमरात्रीभूतायां कस्मिन् पर्वणि तृतीया समाप्तिमेष्यति, तृतीयायां वा तिथाववमरात्रीसम्पन्नायां कस्मिन् पर्वणि चतुर्थी तृतीयया सह निधनमुपयास्यति ? एवं शेषास्वपि तिथिषु व्यवहारगणितदृष्टासु - लोकप्रसिद्धव्यवहारगणितपरिभावितासु पंचमीषष्ठीसप्तम्यष्टमी नवमीदशम्येकादशीद्वादशीत्रयोदशीचतुर्दशीपंचदशीरूपासु शिष्यः प्रश्नं करिष्यति, यथा 'सूक्ष्मेण' प्रतिदिवसमेकैकेन द्वाषष्टितमरूपेण श्लक्ष्णेन भागेन परिहीयमानायां तिथौ पूर्वस्याः अवमरात्रीभूतायास्तिथेरानन्तर्येण परा तिथिः कस्मिन् पर्वणि गते संजायते समाप्ता ? एतदुक्तं भवति - चतुर्थ्यां तिथाववमरात्रीभूतायां कस्मिन् पर्वणि पंचमी समाप्तिमुपयाति, पंचम्यां वा षष्ठी, एवं यावत्