________________
અધિકાર ચોથી - તિથિની સમાપ્તિ
उक्तं तृतीयं प्राभृतं, सम्प्रत्यवमरात्रप्रतिपादकप्राभृतप्ररूपणावसरः, परं तदुपेक्ष्य अल्पवक्तव्यत्वात्प्रथमतस्तिथिसमाप्तिनामकं प्राभृतं [वक्ष्यामि यथानुपूर्व्या एतदेव] वक्तुकाम आह
कम्मो निरंसयाए मासो ववहारकारको लोए ॥ ९४ ॥ (आइच्च कम्मचंदानक्खत्तभिवड्डियाण मासाणं)
सेसा उ संसयाए ववहारे दुक्करा धित्तुं ॥ ९५ ॥ आदित्यकर्मचन्द्रनक्षत्राभिवर्द्धितमासानां मध्ये 'कर्मा' कर्मसंवत्सरसम्बन्धी मासो 'निरंशतया' परिपूर्णत्रिंशदहोरात्रप्रमाणतया लोके सुखेन व्यवहारको भवति, तथाहिहलधरादयोऽपि बालिशास्त्रिंशतमहोरात्रान् परिगणय्य मासं परिकल्पयन्ति, 'शेषास्तु मासाः' सूर्यमासचन्द्रमासादयः 'सांशतया' सावयवतया 'व्यवहारे' लोकव्यवहारप्रवर्तनविषये लौकिकैर्ग्रहीतुं दुष्कराः, दुःखेन स्वयं ज्ञातुं शक्यन्त इत्यर्थः, तथाहि-सूर्यमासः सार्द्धानि त्रिंशद्दिनानि, चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, नक्षत्रमासः सप्तविंशतिदिनानि एकविंशतिश्च सप्तषष्टिभागा दिनस्य, अभिवर्द्धितमास एकत्रिंशद्दिनानि एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानां दिनस्य, न चैतद्वालिशा जानते, केवलं चान्द्रो (कर्म) मासस्तिथ्यपेक्षया चिन्त्यमानः परिपूर्णत्रिंशत्तिथ्यात्मकत्वेन निरंशत्वात् लोके
१. अत्र म. वि. संस्करणे त्वेवं पाठ उपलभ्यते - 'एत्तो तिधिणिप्फतिं वोच्छामि जहाणुपुब्बीए ॥१०५॥
कम्मो णिरंसयाए मासो ववहारकारओ लोए । एवं सेसा मासा ववहारे दुक्करा घेत्तुं ॥१०६ ॥ (छा.) इत स्तिथिनिष्पत्तिं वक्ष्यामि यथानुपूर्व्या ॥१०५ ॥ कर्मो निरंशतया मासो व्यवहारकारको लोके । एवं शेषा
मासा व्यवहारे दुष्करा ग्रहितुम् ॥१०६ ॥ (અનુ.) એના પછી તિથિની નિષ્પત્તિ આનુપૂર્વી અનુસાર કહીશું ૧૦પા વ્યવહારમાં નિરંશ હોવાથી કર્મ માસ પ્રચલિત છે, એ રીતે બીજા માસો વ્યવહારમાં ગ્રહણ કરવા દુષ્કર છે.