________________
८२
[ कूपदृष्टान्तअत्रापि परिमितसं बार फल कस्वार्थवादेनानुकम्पादविवाज्ञायोगः किं न कल्प्यते ? उक्तं हि-संसारप्रतनुताकारणत्वं द्रव्यस्तवस्य, तत्र दानादिचतुष्कतुल्य फलत्वपदोर्णनमप्यत्रोपष्टम्भकमेव ॥ ८ ॥
अथ 'द्रव्यस्तो यावानारम्भम्तावत्यापमि'त्यत्र स्थूलान्पपत्तिमाह
जावइओ आरंभो, तावइयं दूषणंति गणणाए। अप्पत्तं कह जुज्जइ, अप्पपि विसं च मारेइ ॥ ९॥
टीका-द्रव्य स्तवे यावानारम्भस्तावदूषणमिति गणनायां क्रियमाणायां, ऋजुसूत्रनये प्रतिजीवं भिन्नभिन्न हिंसाऽऽश्रयणा दसङ ख्यजीवविषय आरम्भः एक भगवद्विषया च भक्तिरिति अल्पपापबहुतरनिर्जराकारणत्वं सर्वथाऽनुपपन्नम् । आत्मरूपहिंसाऽहिंसावादिशब्दादिनयमते त्वाह-अल्पमपि विषं च हालाहलं मारयति । आध्यात्मिक आरम्भो यद्यल्पोऽपि स्यात्तदापुण्यानुबन्धिपुण्यप्राप्तिर्न स्यादेव, व्याध्याद्य (?धा) पेक्षया 'कर्णजीविनामिवाल्परसस्यापि तस्य शुभकर्मविरोधित्वादिति भावः ॥ ९॥
सूक्ष्मानुपपत्तिमाह“कक्कसवेज्जमसायं बन्धइ पाणाइवायओ जीवो"। इय भगवईइ भणियं ता कह पूयाइ सो दोसो ॥१०॥ १. कर्णजीविना 'नाविकः' बोद्धयः ।