SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ हितं । अप्रतिबुद्धौ कथञ्चित् प्रतिबोधयेन्मातापितरौ । उभयलोकसफलं जीवितं (प्रशस्यते) समुदायकृतानि कर्माणि समुदायफलानीति । एवं सुदीर्घः (च) वियोग: अन्यथा । एकवृक्षनिवासिशकुनतुल्यमेतत् । उद्दामो मृत्युः प्रत्यासन्नश्च । दुर्लभं मनुजत्वं समुद्रपतितरत्न-लाभतुल्यं । अतिप्रभूता अन्ये भवा दुःखबहुला मोहान्धकारा अकुशलानुबन्धिनोऽयोग्या: शुद्धधर्मस्य । योग्यं चैतत् पोतभूतं भवसमुद्रे युक्तं स्वकार्ये नियोक्तुं संवरस्थगितच्छिद्रं ज्ञानकर्णधारं तपः पवनजवनं । क्षणो दुर्लभः सर्वकायोपमातीतः सिद्धिसाधकधर्मसाधकत्वेन । उपादेया चैषा जीवानां । यन्नास्यां जन्म, न जरा, न मरणं, नेष्टवियोग: नानिष्टसंप्रयोगः, न क्षुधा, न पिपासा, नान्यः कश्चिद्दोषः । सर्वथाऽपरतन्त्रं जीवावस्थानमशुभरागादिरहितं शान्तं शिवमव्याबाधम् ॥ शब्दार्थ : साहुधम्मे = साधुधर्म परिभाविऐ = વિચારે છતે जहादिअगुणे = संसा२वि२६ गुणो सूत्रम्-३
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy