________________
( १३४ )
रत्नानामिवेति ॥ जोजव्याः । इत्यालोच्य इति विचार्य जगवतः पूज्यस्य संघस्य पूजाविधिर्विरच्यतां क्रियतां । इतीति किं ? यतः सौ संघः साधु साध्वी श्रावक श्राविका रूपश्चतुर्विधसंघः गुणानां ज्ञान दर्शन चारित्र विनयादीनां स्थानं निवासः । कः केषा मिव ? रोहण क्षितिधरः रोहणश्चासौ क्षितिधरश्च पर्वतो रत्नानामिव । यथा रोहणाचलोरत्नानां स्थानं तथेत्यर्थः । पुनः खं श्राकाशं तारकाणामिव । पुनयथा स्वर्गः कल्पमहीरुहां कल्पवृक्षाणां स्थानं तथेत्यर्थ पुनर्यथा सरस्तडागः पंकेरुहाणां कमलानां स्थानं तथा । पुनर्यथा पाथोधः समुद्रः पयसां पानीयानां स्थानं तथा । किंनूतानां पयसां । इंडुमहसां इंडुवनिर्मलानां । अथवा शशीव महसां इति पाठः । यथा शशी चंद्रो महसां तेजसां स्थानं तथाऽसौ संघो गुणानां स्थानं । श्रथ वा किंनूतानां गुणानां डुमदसां इंडुवत् महो एषां तानि इंडुमहांसि तेषां । एवं श्री चतुर्विधसंघः सर्वगुणानां स्थानं । इति ज्ञात्वा श्रीसंघस्य जक्तिः कार्या । कुर्वतां च सतां यत्पुण्यं ०२१
जाषाकाव्य :- कवित्त मात्रात्मक | जैसे नजमंमल तारागन, रोहन सिखर रतनकी खान ॥ ज्यौं