________________
લઘુતાને પામે છે. પરંપરાએ ગુણ અને ગુણીની અવજ્ઞાને કરનારાં એ અનુષ્ઠાનો મોક્ષબાધક बनी य छे. ॥१-3011
પૂર્વે જણાવ્યા મુજબ સુપાત્રને દાન કરવાથી પરંપરાએ મોક્ષની પ્રાપ્તિ થાય છે – એ વાત સાચી; પરંતુ પૂ. મુનિભગવંતોને દાન આપવાથી આરંભાદિ થતા નથી; પણ શ્રાવક કે સમ્યગ્દષ્ટિ આત્માને ભોજનાદિ કરાવતી વખતે આરંભાદિ થાય છે. તેથી આરંભાદિ દોષવાળા દાનથી મોક્ષની પ્રાપ્તિ કઈ રીતે થાય - આ શંકાનું નિરાકરણ કરવા એકત્રીસમો શ્લોક છે.
शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते ।
कूपज्ञातेन स पुनर्नानिष्टो यतनावतः ॥१-३१॥ शुभयोगेऽपीति-पात्रदानवबुद्धीनां साधर्मिकवात्सल्यादौ शुभयोगेऽपि प्रशस्तव्यापारेऽपि यः कोऽपि द्रव्यतो दोषो जायते । स कूपज्ञातेन आगमप्रसिद्धकूपदृष्टान्तेन । यतनावतो यतनापरायणस्य । नानिष्टः, स्वरूपतः सावद्यत्वेऽप्यनुबन्धतो निरवद्यत्वात् । तदिदमुक्तम्-“जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स | सा होइ णिज्जरफला अज्झत्थविसोहिजुत्तस्स ।।१।।” अत्र हि अपवादपदप्रत्ययाया विराधनाया व्याख्यानात् फलभेदौपयिको ज्ञानपूर्वकत्वेन क्रियाभेद एव लभ्यते । यत्तु वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवघातपरिणामाजन्यत्वेन जीवविराधनायाः प्रतिबन्धकाभावत्वेनैवात्र हेतुत्वमिति कश्चिदाह साहसिकः, तस्यापूर्वमेव व्याख्यानमपूर्वमेव चागमतर्ककौशलं केवलायास्तस्याः प्रतिबन्धकत्वाभावात् जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे च विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाज्जीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येत । अथ वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत्, किमेतद्विराधनापदप्रवृत्तिनिमित्तं विशेषणं वा ? आधे प्रवृत्तिनिमित्तं नास्तिपदं चोच्यत इत्ययमुन्मत्तप्रलापः । अन्त्ये चोक्तदोषतादवस्थ्यमिति शिष्यध्यन्धनमात्रमेतद् । अथ यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिरिति नियमाद्वर्जनाऽभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीतिभावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभत इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वमक्षतमिति चेन्न, प्रकृतविराधनाव्यक्ती जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद् । अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्यापि तदानस्यानुपपत्तेः । स्यादेतद् वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमिति, मैवं, विशेषणविशेष्यभावे विनिगमनाविरहाद् । अन्यथा दोषाभावविशिष्टबाधत्वेनैव दुष्टज्ञाने प्रतिबन्धकत्वप्रसङ्गाद्, विशेष्याभावस्थलेऽतिप्रसङ्गाच्च । तस्माद्वर्जनाभिप्रायस्यैव फलविशेषे निश्चयतो हेतुत्वं, व्यवहारेण च तत्तद्व्यक्तीनां भावानुगतानां निमित्तत्वमिति साम्प्रतम् । विपश्चितं चेदमन्यत्रेति नेह विस्तरः ।।१-३१।।
38
દાન બત્રીશી