SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ઉપદેશપદ : ભાગ-૨ कालेण रायणिग्गम, पासणया अकुसलोदया कोवो । खग्गेण सीसछिंदण, अण्णेउ फलेण ताडणया ॥४६०॥ सेसाण लेलुखेवे, रासी अहियासणाए णाणत्ति । अंतगडकेवलित्तं, इंदागम पूयणा चेव ४६१॥ दट्ठण रायलज्जा, संवेगा अप्पवहपरीणामो । इंदनिवारण सम्मं, कुण पायच्छित्त मो एत्थ ॥४६२॥ साहुसमीवगमणं, सवणं तह चेव पायछित्ताणं । किं एत्थ पायच्छित्तं, सुद्धं चरणंति पव्वज्जा ॥४६३॥ पच्छायावाइसया, अभिग्गहो सुमरियम्मि नो भुंजे । दरभुत्ते चेवं चिय, दिवसम्मि न तेण किल भुत्तं ॥४६४॥ आराहण कालगओ, सुरेसु वेमाणिएसु उववण्णो ।. एवं अभिग्गहो इह, कल्लाणणिबन्धणं णेओ ॥ ४५॥ . इह मध्यमप्रतिष्ठितगगनतलोल्लेखिशिररत्नमयदेवताविनिर्मितजिनस्तूपप्रभावोपलब्धसर्वदिङमण्डलव्याप्तिश्लाघायां मथुरायां पुरि यमुनो राजाऽभूत्। तत्र च यमुनावक्रे दण्डो नामानगार आतापनां चकार । 'वहणं च 'त्ति हननं च यमुनेन राज्ञा तस्य कृतम् । कालकरणं च सञ्जातं शक्रागमनं चेन्द्रावताररूपम् । ततः प्रव्रज्या यमुनस्य समजनीति ॥४५८॥ एतामेव गाथां गाथासप्तकेन व्याचष्टे-'जउणा' इत्यादि यमुनावक्रे, एतदुक्तं भवति यमुनाया नद्याः कूपरे, कूर्परो नाम समाकुञ्चिताग्रभागस्य बाहोर्यादृश आकारस्तदाकारं यत् क्षेत्रं तत्र, परमगुणयुक्त आतापयति शीताद्यधिसहनेनात्मानमायासयति महात्मा प्रशस्तपरिणामो दण्डो नाम्ना साधुरिति ॥४५९॥ एवं च तस्मिन्नातापयति, कालेन केनचिद् गतेन, राज्ञो यमुनस्य 'निग्गम'त्ति नगराद् बहिर्निर्गमे जाते 'पासणय त्ति दण्डानगारदर्शनमभूत् । ततो निर्निमित्तमेवाकुशलोदयात् क्लिष्टकर्मविपाकात् तस्य तत्र दण्डानगारे कोपो बभूव । तत ऐहिकमामुष्मिकं च पापफलमनालोच्यैव तेन तस्य साधोः खड्गेन शीर्षच्छेदनमकारि । अन्ये त्वाचार्याः फलेन बीजपूरादिना तेन ताडना कृतेति ब्रुवते ॥४६०॥ ___ तदनु शेषाणां सेवकलोकानां सम्बन्धिनि लेष्ठलेपे राशिर्लेष्ठूनामसौ जातः । अधिसहनायां 'स्वकृतकर्मफलपाकोऽयं मे समुपस्थितो न कश्चित् कस्यचिद् अपराधः' एवंरूपायां जातायां समुल्लसितशुक्लध्यानस्य ज्ञानं केवलाख्यमजायत ।
SR No.022108
Book TitleUpdeshpad Granth Part 02
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages538
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy