________________
૬૧
Gपहेशप : भाग-२ एष भिन्नग्रन्थिः, सम्यग्बोधप्रदीपप्रभाप्रहतप्रौढमिथ्यात्वान्धकारभावत्वात्तस्य । मन्यते पुनरित्थं-यत् कार्यं तदनुरूपकारणप्रभवं, यथा शालिगोधूमादिधान्यविशेषः, कार्य चेहभविका हर्षविषादादयः, यच्चैतेषामनुरूपं कारणं तत्प्राग्भवचैतन्यमिति परलोकसिद्धिः । तथा सन्ति च जिनाः, तत्साधकप्रमाणस्याबाधितविषयस्य सत्त्वात् । तथा हि-ये यतो हेतोर्देशतः क्षीयमाणा वीक्ष्यन्ते ते ततः प्रकर्षप्राप्तात् सम्भवत्सर्वक्षया अपि, यथा चिकित्सासमीरणादिभ्यो रोगजलधरादयो, दृश्यन्ते च प्रतिपक्षभावनातः क्वचित् प्राणिनि देशतः क्षीयमाणा रागादयः, ततः प्रस्तुतभावनाप्रकर्षात् सम्भवत्येव तेषां कदाचित् सर्वप्रलय इति, ये च सर्वप्रक्षीणदोषास्त एव जिनाः । न चादर्शनमात्रेण तेषामसत्त्वमुद्भावनीयमाग्दर्शिभिरदृश्यमानानामपि पातालतलगतानां मूलकीलादीनां बहूनां भावानां सद्भावात् । धर्मोऽपि समस्ति, सूत्रे धर्मस्योपलक्षणत्वात् पापमपि गृह्यते । ततः पुण्यं पापं समस्तीत्यर्थः । कथमन्यथा तुल्यव्यवसाययोरपि द्वयोः फलसिद्धौ सर्वजनप्रतीतो भेद उपलभ्यते? यथोक्तम्-"तुल्यप्रतापोद्यमसाहसानां, केचिल्लभन्ते निजकार्यसिद्धिम् । परे न तामत्र निगद्यतां मे, कर्मास्ति हित्वा यदि कोऽपि हेतुः? ॥१॥ विचित्रदेहाकृतिवर्णगन्धप्रभावजातिप्रभवस्वभावाः । केन क्रियन्ते भवनेऽङ्गिवर्गाश्चिरन्तनं कर्म निरस्य चित्राः? ॥२॥ विवर्य मासान् नव गर्भमध्ये, बहुप्रकारैः कललादिभावैः । उद्वर्त्य निष्कासयते सवित्र्याः को गर्भतः कर्म विहाय पूर्वम्? ॥३॥" यच्च गण्डपीडाधिसहनतुल्यं शीलमुक्तं तदपि न चारु, गण्डपीडाप्रतीकारस्य तथाविधरागद्वेषयोरभावेन प्रवृत्तत्वात् । बस्तिनिरोधपीडाप्रतीकारस्य च संसारमूलतीव्रकामरागमूलत्वेनात्यन्तदुर्वृत्तत्वाद् न किञ्चित् तत्प्रतीकारयोः साम्यमस्ति। तथा चार्षम्- "मूलमेयमहम्मस्स, महादोससमुस्सयं। तम्हा मेहुणसंसग्गिं, निग्गंथा वजयंति णं ॥१॥" यच्चोक्तं नास्त्यष्टमी पृथिवीति, सापि शठोक्तिरेव, संसारमसारममन्यमान एवेत्थं वक्ति । नहि संसारभीरवोऽन्यतरनरकपृथ्वीदुःखमप्यनुमन्यन्ते, किं पुनः सर्वपृथ्वीप्रभवमिति । यच्च मीमांसकैर्वचनापौरुषेयत्वमु ष्यते, तदपि सुधीभिर्नेष्यत एव । तथा हि-उच्यत इति वचनं पुरुषव्यापारानुगतं रूपमस्य, कथं तक्रियाया अभावे तद् भवितुमर्हति? । न चैतत् केवलं क्वचिद् ध्वनदुपलभ्यते। उपलब्धावपि क्वचिददृष्टवक्त्राशङ्का न निवर्त्तते । यच्चेश्वरकारणिकैरीश्वरकर्तृकं जगदिति प्रोच्यते । तदप्युच्चावचमेव । ईश्वरो हि परैरुत्पत्तिविकलः कल्प्यते । न च तादृशात् किञ्चित् कार्यमुपपद्यते । यथोक्तम्-"नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः। गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥१॥" इति ॥४३६॥