________________
४८
ઉપદેશપદ : ભાગ-૨
'क्षपयित्वा' समुच्छेद्य 'तकं' कुकर्म शीतलविहारोपात्तं जातः 'कौशाम्बीमाहनसुतः' कौशाम्ब्यां पुरि ब्राह्मणसूनुरिति । 'विद्यावान्' चतुर्दशविद्यास्थानपरपारगामी, परं 'अगुरुको' राजभवनादिषु क्वचिदप्यप्राप्तगौरवः समभूत् । ततश्चास्य चिन्ता समजनि निजविषयप्रवृत्तिजनागौरवगोचरा कथमहमनपराधोऽपि जनैरित्थमेवावज्ञातः कृतः । ' ओसरण 'त्ति 'तस्मिंश्च समये कस्यचिदर्हतो भगवतस्तत्र समवसरणं समजनि । श्रुतधर्मस्य चास्य निष्क्रमणं व्रतमभूत्तदन्ते ॥४२५ ॥
तत्र च लोकावज्ञापृच्छा, यथा भगवन्! कुतो निमित्तादहमवज्ञातो जातः । निमित्तकथने च शीतलविहाररूपस्य हेतोः पुनर्निवेदने कृते परमसंवेगः समुदपादि । ततः 'सर्वत्र' साधुसमाचारे उद्यतयोगः 'सोपयोगप्रवृत्तिः ' स बभूव । अन्यदा शक्रस्तुतिरुद्यतयोगविषया जाता । ततः 'देवहत्थिरिय 'त्ति एकेन देवेन शक्रवचनमश्रद्दधता हस्तीभूय ईर्यापथप्रथमसमितिरूपा परीक्षितुमारब्धा ॥४२६ ॥
कथमित्याह-मार्गप्रवृत्तसञ्चरणानां 'मुइंगलिकानां' कीटिकानामित्यर्थः, यद् रक्षणं तत्र गतं चित्तं यस्य स तथा हस्तिना समुत्क्षिप्तोऽसौ । ततो भूमौ निपतितस्य कीटिकारक्षणैकपरिणतेरशक्यरक्षं तदुपद्रवं स्वकायेन पश्यतः स्वजीवितव्यनिरपेक्षस्य यत् पुनः पुनर्मिथ्यादुष्कृतं तेन या संवेगवृद्धिस्तस्याः सकाशाद् 'गतिद्विकस्य' नारकतिर्यग्गतिलक्षणस्य क्षपणं निर्लेपनमस्याभूत् तद्गतिसम्पादककर्म्मानुबन्धव्यवच्छेद इत्यर्थः ॥४२७॥
'वैमानिकेषु' सौधर्म्मादिस्वग्र्गोद्भवदेवेषु शुभमनुष्येषु च यः 'शुद्धाचारो' निर्मल. स्वावस्थोचितानुष्ठानरूपस्तस्य परिपालनायां निरतः समाहितः सन् 'सप्ताष्टजन्ममध्ये', तत्र सप्त देवभवाः कौशाम्बीब्राह्मणसुतजन्मप्रभृतयश्चाष्टौ मनुष्यभवास्तेषां मध्येऽष्टमे मनुष्यभवे इत्यर्थः, 'चक्री' चक्रवर्ती भूत्वा 'संसद्धिो' निर्वृत इति ॥ ४२८ ॥
હવે આઠ ગાથાઓથી શીતલ વિહારી દેવનું વ્યાખ્યાન કરવા માટે કહે છે
દેવ નામનો એક સાધુ હતો. તેનો ચારિત્રમોહ પ્રબળ હતો. આથી તે સાધુના આચારોમાં શિથિલ હતો, મૂલગુણ-ઉત્તરગુણોના અતિચારોના ભયથી રહિત બન્યો. આ અપરાધના કારણે તે મરીને સંસારરૂપ જંગલમાં ભમ્યો. (૪૨૧)
આને જ વિચારવા માટે ગ્રંથકાર કહે છે–શિથિલ આચારોના કારણે નિશ્ચયથી ભગવાનની લઘુતા કરવા રૂપ આશાતના થાય છે. શિથિલ આચારના કારણે સાધુને તે તે પ્રમાદસ્થાનોમાં પડતા જોઇને તેવા પ્રકારના લોકો મનમાં નિશ્ચય કરે કે આ અનુચિત વ્યવહાર એમના શાસ્ત્રકારોએ જ જણાવ્યો છે. આ પ્રમાણે વિચારીને ઘણી અવજ્ઞા