________________
४८
64हेशप : भाग-२ लोयावन्नापुच्छा, निमित्तकहणम्मि परमसंवेगा । सव्वत्थुज्जयजोगो, सक्कथुती देवहत्थिरिया ॥४२६॥ मूइंगलियारक्खण-गयचित्तो हत्थिणा समुक्खित्तो । मिच्छादुक्कडसंवेगवुड्डिओ गतिदुगक्खवणं ॥४२७॥ वेमाणियसुहमाणुस-सुद्धाचारपरिपालणाणिरओ । सत्तट्ठजम्ममझे, चक्की होऊण संसिद्धो ॥४२८॥
देवो नामानगारः साधुरेक आसीत् । कीदृश इत्याह-'कर्मगुरुः' प्रबलचारित्रमोहः 'शीतलः'शिथिलो विहारेण'साधुसामाचारीरूपेण ।ततो निद्धंधसो'मूलगुणोत्तरगुणातिचाराभीरुः सन्, इत्यतोऽपराधाद् मृत्वा भ्रान्तः' पर्यटितः संसारकान्तारे इति ॥४२१॥
एतदेव भावयितुमाह-शीतलविहारत उक्तरूपात् , खलुक्यालङ्कारे, 'भगवदाशातना' तीर्थकरलाघवानयनरूपा 'नियोगेन' निश्चयेन सम्पद्यते । शीतलविहारेण हि तेषु तेषु प्रमादस्थानेषु समापद्यमानं साधुमालोक्य तथाविधलोकैनूनमयमसमञ्जसरूपो व्यवहार एतच्छास्त्रकारैरेव निरूपित इति मनसि सम्प्रधार्य परिभावयन् भगवति जिने भृशमवज्ञाकारकस्तानि तान्याशातनापदानि समाचरति, इत्यतः शीतलविहारिणः साधोः स्वयमेवाज्ञोल्लंघनहेतुभावाद् नियतमेव भगवदाशातना जायते । ततो' भगवदाशातनातो 'भवः' संसारो' ऽनन्तो'ऽपरिमाणः 'क्लेशबहुलः' शारीरमानसबाधाभिभूतो भवति यतो भणितमागमे ॥४२२॥
तदेव दर्शयति-तीर्थकरप्रवचनश्रुतं' तत्र तीर्थकरश्चतुर्वर्णश्रीश्रमणसंघप्रसूतिहेतुः पुरुषविशेषोवृषभादिः, प्रवक्तिवस्तुतत्त्वमितिप्रवचनं संघः, श्रुतंद्वादशाङ्गम्, 'आचार्य' 'युगप्रधानं', 'गणधरं' तीर्थकरशिष्यप्रधानशिष्यरूपं, 'महर्द्धिकं' वैक्रियवादादिलब्धिमन्तमाशातयंस्तदुत्प्रेक्षितदोषोद्घोषणेनानुचिताचरणेन वाऽवज्ञास्थानमानयन् 'बहुशो'ऽनेकधाअनन्तसंसारिकोभवति, सम्यक्त्वादिगुणघातकमिथ्यात्वादिकर्मोपार्जनेन दूरं सन्मार्गपराङ्मुखस्य तत्रयोपस्थापनाचारणादिति ॥४२३॥ ___ अथ प्रस्तुतं सम्बन्धयन्नाह-'स' देवनामा साधुस्तस्मिन् संसारे तद्विपाकाच्छीतलविहारोपात्तकर्मोदयाद् 'हीनो' जातिकुलादिभिः, “दुःखितश्च' शारीरदुःखोपनिपातैः, 'प्रेषणककारी' परगृहकर्मकरः सन्, तथा 'विफलो' निष्फलतामागतः 'क्रियादिः' कायक्रियावचनचिन्तारूपो 'भावो' व्यापारो यस्य स तथा, 'प्रायो भूत्वा मन्दमति हिताहितविवेकशून्यमतिः ॥४२४॥ . १. क. ख. ग. 'तत्त्वयोपस्थापना-' २ घ.-नाचरणादिति ।