________________
38
Gपहेशप : भाग-२ ___अन्यदा च केवलियोगे जाते सति पृच्छा तेन कृता। यथा भगवन्! मया भवान्तरे किं कर्म कृतं, येनेत्थमसम्पद्यमानमनोरथोऽहं सम्भूतः? 'कथने' संकाशादिभवग्रहणवृत्तान्तस्य केवलिना कृते, बोधिरुक्तरूपस्तथैव क्षुल्लकजीववत् संवेगस्तस्य समपद्यत। प्रपच्छ च किमित्यत्र चैत्यद्रव्योपयोगापराधे मम कर्तुमुचितमिदानीं साम्प्रतम्? भणितं च केवलिना, यथा-चैत्यद्रव्यस्य जिनभवनबिम्बयात्रास्नानादिप्रवृत्तिहेतोहिरण्यादिरूपस्य वृद्धिरुपचयरूपोचिता कर्तुमिति ॥४०७॥
ततोऽस्य ग्रासाच्छादनमात्रं प्रतीतरूपमेव मुक्त्वा यत् किंचिद् मम व्यवहरतः सम्पत्स्यते, तत् सर्वं चैत्यद्रव्यं ज्ञेयमिति इत्यभिग्रहो यावजीवमभूदिति ॥४०८॥
ततः 'शुभभावप्रवृत्तितो' लाभान्तरायापायहेतोः शुभस्य पूर्वोक्ताभिग्रहलक्षणस्य भावस्य प्रवृत्तेरुद्भवात् प्रक्षीयमाणक्लिष्टकर्मणः सम्प्राप्तिर्धनधान्यादिलाभरूपा जज्ञे। त्यक्तमूर्छस्य चाभिग्रहे प्रागुक्ते 'निश्चलता' स्थैर्यलक्षणा सम्पन्ना । कालेन च भूयसो द्रव्यस्योपचये सम्पन्ने सति परद्रव्यसाहाय्यनिरपेक्षत्वेन 'चेईहरकारावण'त्ति तस्यामेव तगरायां चैत्यगृहकारापणं विहितं । तत्र चैत्यगृहे सदा सर्वकालं भोगपरिशुद्धिः चैत्यगृहासेवननिर्मलता कृता अभोगपरिहारेण ॥४०९॥ ___ अभोगमेव दर्शयति-निष्ठीवनादिकरणमिह. निष्ठीवनं मुखश्लेष्मपरित्यागः,
आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासिकादिमलप्रोज्झनग्रहः । 'असत्कथा' 'स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा । 'अनुचितासनादि' चानुचितमासनं गुरुजनासनापेक्षयोच्चं समं वा, आदिशब्दात् पर्यस्तिकादिबन्धग्रहः। एतत्सर्वं, किमित्याह-आयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थः, यथाऽत्र-"जह दुव्वयणमवयणं, कुच्छियसीलं असीलमसईए । भण्णइ तह णाणंपि हु, मिच्छद्दिहिस्स अण्णाणं ॥१॥" इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गतिहेतुत्वात् । अत्र भोगपरिशुद्धौ 'देवा' भवनपत्यादय उदाहरणम् ॥४१०॥
एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः 'विषयविषमोहिता अपि'दुष्टचारित्रमोहोदयाद्'न' नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः 'समं' सहासखेलाद्यपि, इह हासः प्रतीत एव, 'खेला' क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थूलशेषापराधावरोधो दृश्यः, कुर्वन्ति विदधति । यदत्राप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेषां हासादिपरिहारस्य दुष्करत्वख्यापनार्थमिति ॥४११॥