________________
6पहेशपह: भाग-२
૩૫
केवलिजोगे पुच्छा, कहणे बोही तहेव संवेगो । किं एत्थमुचियमिथिंह, चेइयदव्वस्स वुड्डित्ति ॥४०७॥ गासच्छादणमेत्तं, मोत्तं जं किंचि मज्झ तं सव्वं । चेतियदव्वं णेयं, अभिग्गहो जावजीवंति ॥४०८॥ सुहभावपवित्तीओ, संपत्तीभिग्गहम्मि निच्चलया । चेतीहरकारावण, तत्थ सया भोगपरिसुद्धी ॥४०९॥ निट्ठीवणाइकरणं, असक्कहा अणुचियासणादी य । आयतणम्मि अभोगो, एत्थं देवा उयाहरणं ॥४१०॥ देवहरयम्मि देवा, विसयविसविमोहियावि न कयाइ । अच्छरसाहिपि समं, हासक्खेडाइवि करेंति ॥४११॥ इय सो महाणुभावो, सव्वत्थवि अविहिभावचागेण । चरियं विसुद्धधम्मं, अक्खलियाराहगो जाओ ॥४१२॥
इह संकाशो नाम श्रावकः स्वभावादेव भववैराग्यवान् यथोदितश्रावकसमाचारसारव्यवहारः 'गंधिलावइ 'त्ति गन्धिलावत्यां पुरि समस्ति स्म । स च शक्रावतारे चैत्ये प्रशस्तचित्तः संश्चिन्तां चकार । अन्यदा च कथमपि गृहव्याक्षेपादिकारणैश्चैत्यद्रव्योपयोगी देवद्रव्योपजीवकः प्रमादतोऽज्ञानसंशयविपर्यासादिरूपात् संजातः सन्ननालोचिताप्रतिक्रान्तो मरणमाप ततः संसारे ॥४०३॥ ... तृष्णाक्षुधाभिभूतः सन् सङ्ख्यातानि हिण्डित्वा भवग्रहणानि । तेषु च 'घातनेन' शस्त्रादिभिः, 'वाहनेन' पृष्ठकण्ठभारारोपणपूर्वकदेशान्तरसञ्चारणस्वरूपेण,चूर्णनेन च या वेदनास्ताः प्राप्य बहुशोऽनेकशः ॥४०४॥
तथा, 'दारिदकुलुप्पत्तिं' इति दरिद्रकुलोत्पत्तिं यावजन्म दरिद्रभावं च तत्र प्राप्य, बहुशो बहुजनधिक्कारं यतः कुतोऽपि निमित्ताद् अनिमित्ताच्च बहोर्जनाद् धिक्कारमवर्णवादं, तथेति समुच्चये, मनुष्येष्वपि समुत्पन्नः, गर्हणीयमन्यदपि पुत्रकलत्रादिकं निन्द्यमेव प्राप्य ॥४०५॥
पश्चात्तगरायां पुरि इभ्यसुतः सञ्जातः । कस्यां सत्यामित्याह-'तत्कर्मशेषतायां तु' तस्य चैत्यद्रव्योपयोगकालोपार्जितस्य कर्मणो लाभान्तरायादेः शेषोऽवशिष्टोंऽशः, तस्य भावस्तत्ता, तस्यां सत्यामेव, परं तत्रापि दारिद्र्यं निर्द्धनत्वम्, असम्प्राप्तिर्वाञ्छितस्य। पुनः पुनरनेकश इत्यर्थः । चित्तनिवेदो हृदयोद्वेगरूपः समभूत् ।।४०६॥