________________
૩૧
Gपहेश५६ : (भाग-२ गृह्णीतैतज्जलं, विषदोषदूषितत्वादस्य केनेदमसमञ्जसमाचरितमिति विमर्शव्याकुलेषु साधुषु देवताकथना च संजाता, यथा, रुद्रक्षुल्लकेनैतदनुष्ठितमिति। ततो 'निच्छूढो 'त्ति गच्छान्निष्काशितः स्थूलापराधत्वात् तस्य । तदुक्तम्-"तंबोलपत्तनाएण मा हु सेसावि ऊ विणासेज्जा । निजूहंती तं तू, मा अन्नोवी तहा कुज्जा" इति ॥ ३९५॥
गच्छान्निष्काशितस्य च तस्योन्निष्क्रमणं दीक्षात्यागः । ततो व्याधिर्जलोदरादिरूपः, 'मरणं' प्राणत्यागलक्षणं सम्पन्नम् । मृतस्य च नरकेषु सप्तसु रत्नप्रभापृथिवीप्रभृतिषु उपपातोजन्मचबभूव ।कुत्सिततिर्यग्भ्यः "अस्सण्णी पढमं"इत्यादिग्रन्थोक्तेभ्यःसकाशात् , कीदृशेभ्यः? तथा तथादाहवाहबन्धनोत्कर्तनादिभिःप्रकारैर्दुःखप्रचुरेभ्यः ॥३९६ ॥
'एकेन्द्रियेषु' पृथिवीकायिकादिषु 'प्रायो' बहून् वारान् कायस्थितिरसङ्ख्योत्सर्पिण्यवसर्पिण्यादिरूपा तस्य समभूत् ॥३९७॥
बर्बरा बर्बरकुलवासिनो म्लेच्छाः, पुलिन्दा नाहलाः पर्वताश्रयवासिनः तरुपत्रप्रावरणा म्लेच्छा एव, चण्डालचर्मकाररजकदासभृतकास्तु प्रतीतरूपा एव, ततस्तेषु। तदनन्तरं चूर्णपुरे श्रेष्ठिसुतः समुत्पन्नः। तरुपत्रप्रावरणम्लेच्छादिजन्मसु तत्कर्मनिष्ठापनं साधुप्रद्वेषप्रत्ययोपार्जितं लाभान्तरायदौर्भाग्यादिकानुबन्धव्यवच्छेदः संजात इति।३९८ ___ तत्र च जन्मनि तीर्थकरस्य भगवतः कस्यचिद् योगे पृच्छा पूर्वजन्मवृत्तान्तविषया तेन कृता । तदनु कथने भगवता, 'सम्बोधिः' पुनर्बोधिलाभरूपः समुद्घटितः । जातवैराग्यश्च पप्रच्छ-किमिह साधुप्रद्वेषापराधे प्रायश्चित्तमुक्तरूपं विधेयम् । भगवानाहतबहुमानस्तेषां साधूनामत्मापेक्षया बहुत्वेन मननं प्रायश्चित्तमिति । ततः 'पञ्चशतवन्दनाभिग्रहः' पञ्चानां साधुशतानां प्रतिदिवसं वन्दनार्थोऽभिग्रहो गृहीतो विनयेन साधुविषये कर्त्तव्य इति ॥३९९॥
कथमप्यसम्प्राप्तावभिग्रहस्य 'अभुंज त्ति तहिनेऽन्नपानपरित्यागस्तस्य जायते । एवं चासौ स्थिरप्रतिज्ञः प्रायेणानुपजीवितभोजनः 'छम्मास'त्ति बोधिलाभकालात् षण्मासान् यावजीवित्वा ‘काल 'त्ति कालं कृत्वा ब्रह्मसुरो ब्रह्मलोके देवतया उत्पन्न इति। तत्रापि तीर्थकरभक्तिर्महाविदेहादिषु नन्दीश्वरादिचैत्येषु च सततमेव भगवतामहतां सर्वजगज्जीववत्सलानामपारकरुणारसक्षीरनीरधीनां स्मरणमात्रोपनीतप्रणतजनमनोवाच्छितानां भक्ति-वन्दनपूजनधर्मश्रवणादिरूपा समासीत् । कालेन ततश्च्यवनम् । चम्पायां पुरि चन्द्रराज-सुतः समुत्पन्न इति ॥४००॥