________________
ઉપદેશપદ :: भाग-१
४८३
પુરુષાર્થ કહ્યો છે. આ ગાથામાં અલ્પકર્મની સહાયથી યુક્ત પુરુષાર્થને જ પુરુષાર્થ કહ્યો છે અને ઘણા કર્મની સહાયથી ઉપકૃત કરાયેલો તે પુરુષાર્થ જ કર્મ છે, એમ કહ્યું છે. આ પ્રમાણે આ બે પ્રતિપાદનમાં ભેદ છે. (૩૫૧)
अमुमेवार्थमुदाहरणेन साधयन्नाह -
णायमिह पुण्णसारो, विक्कमसारो य दोण्णि वणियसुया । णिहिपरतीरधणागम, तह सुहिणो पढमपक्खम्मि ॥३५२ ॥ दाणुवभोगा णिहिलाभओ दढं अविगलाउ एक्कस्स । परतीरकिलेसागमलाभाओ एवं बीयस्स ॥ ३५३ ॥ रायसवणम्मि पुच्छा, णिवेयणं अवितहं दुविहंपि । दइवेयरसंजुत्ता, पवायविण्णासणा रण्णो ॥ ३५४ ॥ एगणिमंतणमविगलसाहजोगोऽकिलेसओ चेव । भोगोवि य एयस्स उ, एवं चिय दइवजोगेण ॥ ३५५ ॥ अण्णस्स वच्चओ खलु, भोगम्मिवि पुरिसगारभावाओ । रायसुयहारतुट्टणरुयणे तप्पोयणाभोओ ॥३५६॥
अथ संग्रहगाथाक्षरार्थः-ज्ञातमुदाहरणमिह दैवपुरुषकारयोर्गुणप्रधानभावे पुण्यसारो विक्रमसारश्च द्वौ वणिक्सुतौ । कथमित्याह - ' निहिपरतीरधणागमत्ति निधिपरतीरधनागमाभ्यां कृत्वा तथा सुखिनावक्लेशलभ्यशर्म्मासमन्वितौ सन्तौ । तत्र प्रथमपक्षे दैवप्राधान्यरूपे ॥३५२ ॥
'दानोपभोगौ' दानं कृपणादीनां भोगो वस्त्रताम्बूलादीनां प्रवृत्तौ 'निधिलाभतो' निधानलाभाद् दृढमतिशयेनाविकलौ तु परिपूर्णावेव 'एकस्य' पुण्यसारस्य । तथा, 'परतीरक्लेशागमेन लाभात्' परतीरात् क्लेशागमेन यो लाभो धनस्य तस्मादेवं पुण्यसारवद् द्वितीयस्य 'विक्रमसारस्य' दानोपभोगौ जातावविकलाविति ॥ ३५३ ॥
अथैतद्वृत्तान्तस्य राजश्रवणे सति पृच्छा तेन कृता । निवेदनमवितथं यथावद् द्वाभ्यामपि कृतम् । ततो दैवेतरसंयुक्ताविति 'प्रवादविन्यासना' तत्परीक्षारूपा राज्ञः समपद्यत ॥३५४॥
कथमित्याह - एकं निमन्त्रणं पुण्यसारस्य भोजनार्थं स्वगृहे निरूपणमकारि । तत्राविकलसाधनयोगः परिपूर्णभोजनाङ्गयोगो ऽक्लेशत एव लीलयैव, भोगोऽपि च