________________
ઉપદેશપદ : ભાગ-૧ लाभकाले चाष्टमहाप्रातिहार्यसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनोहारिणाऽवितथकथापथस्फीतिकारिणा जातिजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्रस्वरूपनरामरादिजन्तुसंशयसंदोहापोहसमुत्पादनेन, स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहीमण्डलमध्ये सर्वाधिव्याधिरजोरशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभुवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याह, लोक्यते केवलालोकलोचनबलेन केवलिभिदृश्यते यः स 'लोकः', स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम्- "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥" इह तु तदेकदेशोऽप्यूर्वादिप्मैकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहृतास्त्रिलोकम्, त्रिलोकस्य लोकत्रयवर्त्तिनो भव्यजनस्य नाथः अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं 'त्रिलोकनाथम्'; 'जिन' दुरन्तरागाद्यन्तरवैरिवारजेतारम् । कमित्याह;दुर्गसुराधमसंगमकादिक्षुद्रजन्तुकृतोपसर्गवर्गसंसर्गेऽप्यविचलितसत्त्वतया महान् बृहद्वीरः शूरो यस्तं 'महावीरम्' अपश्चिमतीर्थाधीश्वरं वर्द्धमाननामानमित्यर्थः। पुनरपि कीदृशमित्याहलोक उक्तलक्षणस्तद्विपरीतश्चालोकः, लोकालोकयोम॑गाङ्क इव केवलालोकपूर्वकवचनचन्द्रिकाप्राग्भारेण यथावस्थिततत्स्वरूपप्रकाशनात् तं 'लोकालोकमृगाङ्कम्' । तथा, 'षिञ् बन्धने' इति वचनात्सितं चिरकालबद्धं कर्म ध्मातं निर्दग्धं शुक्लध्यानानलाद् येन स निरुक्तात्सिद्धः; "षिधु गत्याम्' इति गतो निवृतिं यातो भुवनाद्भुतभूतविभूतिभाजनतया, "षिधू शास्त्रे मांगल्ये च' इति वचनात् समस्तवस्तुस्तोमशास्ता विहितमङ्गलः "षिधु संराद्धौ' 'राध साध संसिद्धौ' इति वचनात् साधितसकलप्रयोजनो वा सिद्धस्तं 'सिद्धम्' उक्तं च;- "ध्मातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्धि। ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥१॥" तथा, सिद्धः प्रमाणबलोपलब्धात्मतत्त्व उपदेशस्य प्रवचनस्यार्थः जीवाजीवादिरूपोऽभिधेयविशेषो यस्य स तथा; अथवा सिद्धः सकलक्लेशविनिर्मुक्तो जीवविशेषः स एवोपदेशस्याज्ञाया अर्थं प्रयोजनं यस्य स तथा, भगवदाज्ञाया मोक्षैकफलत्वेन परमर्षिभिः प्रतिपादितत्वात्, अतस्तं "सिद्धोपदेशार्थम्'। अत्र च विशेषणबाहुल्यमज्ञातज्ञापनफलमेवोक्तम्, न पुनर्व्यवच्छेदार्थम्, यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादीवेति । 'वक्ष्ये'ऽभिधास्ये किमित्याह;'उपदेशपदानि', इह सकललोकपुरुषार्थेषु मोक्ष एव प्रधानः पुरुषार्थ इति तस्यैव मतिमतामुपदेष्टुमर्हत्वेन तदुपदेशानामेव भावत उपदेशत्वमामनन्ति, तत उपदेशानां मोक्षमार्गविषयाणां शिक्षाविशेषाणां पदानि स्थानानि मनुष्यजन्मदुर्लभत्वादीनि, यद्वा, उपदेशा एव पदानि वचनानि उपदेशपदानि तानि । 'कतिचित्'-स्वल्पानि सूत्रतः, अर्थतस्त्वपरिमाणानि, सर्वसूत्राणामनन्तार्थाभिधायकत्वेन पारगतगदितागमे प्रतिपादनात् ।