________________
ઉપદેશપદ : ભાગ-૧ જો કે પૂર્વપુરુષોએ ઉપદેશપદ ગ્રંથ ઉપર કઠિનવૃત્તિ રચેલી છે. પણ કાળબળથી અલ્પબુદ્ધિવાળો લોક તેને સ્પષ્ટપણે સમજવા માટે સમર્થ નથી. તેથી અલ્પબુદ્ધિવાળા લોકો ઉપર ઉપકાર કરવા માટે અને પોતાની પણ તત્ત્વસંબંધી પવિત્ર પ્રીતિને વિસ્તારવા માટે પોતાના બોધને डेन।२।(=xsuqill) (=वृत्ति स्यवाना) प्रयलने ०३ रु छु.(3)
ગ્રંથકારનું મંગલચરણ इह खल्वार्यमण्डलमध्योपलब्धजन्मानोऽपि निष्पङ्कपङ्कजपुञ्जोज्ज्वलकुलजातिप्रभृतिगुणमणिरमणीयताभाजोऽपि तथाविधशास्त्राभ्यासवशोपजातजात्यमतिमाहात्म्यापहस्तितबृहस्पतयोऽपि विहितौदार्यदाक्षिण्यप्रियंवदत्वाद्यनुपमकृत्यपरंपरासंपादितसकलमनस्विमानवमन:प्रमोदसंपदोऽपि स्वभावत एव मन्दमोहमदिरामदतया मनाक्प्राप्तनिर्वाणपुरपथानुकूलविषयवैराग्या अपि प्राणिनः प्रायो जिनोपज्ञानि सकलकुशलारम्भमूलबीजानि अत एवाधरीकृतनिधानकामधेनुप्रमुखपदार्थप्रभावाणि दूरसमुत्सारितप्रचुरतरमोहतिमिरप्रसराण्युपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमर्हन्ति । कथञ्चित् तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासंतानविषवेगावेशवशेन क्षोभ्यमाणमनसो न स्थैर्यमवलम्बितुमलं, यद् वक्ष्यति,-"सफलो एसुवएसो, गुणठाणारंभगाण भव्वाण । परिवडमाणाण तहा, पायं न उ तट्ठियाणं तु ॥" इत्यवधार्य परहिताधाननिबिडनिबद्धबुद्धिर्भगवान् सुगृहीतनामधेयः श्रीहरिभद्रसूरिरुपदेशपदनामकं प्रकरणं चिकीर्षुरादावेव मङ्गलाभिधेयप्रयोजनप्रतिपादकमिदं गाथायुग्ममाह
नमिऊण महाभागं, तिलोगनाहं जिणं महावीरं । लोयालोयमियंकं, सिद्धं सिद्धोवदेसत्थं ॥१॥ वोच्छं उवएसपए, कइइ अहं तदुवदेसओ सुहमे ।
. भावत्थसारजुत्ते, मंदमइविबोहणट्ठाए ॥२॥ इह चाद्यगाथया सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुरादिमङ्गलमुक्तम्, द्वितीयया तु प्रेक्षावत्प्रवृत्त्यर्थं साक्षादेवोपदेशपदलक्षणमभिधेयं, मन्दमतिश्रोतृजनावबोधलक्षणं च प्रयोजनम्। सामर्थ्याच्चाभिधानाभिधेययोर्वाच्यवाचकभावलक्षणः, अभिधेयप्रयोजनयोश्च साध्यसाधनभावस्वभावः संबन्ध उक्त इति समुदायार्थः । संप्रत्यवयवार्थः प्रतन्यते; तत्र 'नत्वा' प्रणम्य प्रशस्तमनोवाक्कायव्यापारगोचरभावमानीयेति यावत्, महावीरमित्युत्तरेण योगः । कीदृशमित्याह, भागोऽचिन्त्या शक्तिः , ततो महान् प्रशस्यो भागो यस्य स तथा, तं 'महाभागम्' । महाभागता चास्य जन्ममजनकाल एव सहस्राक्षशङ्काशङ्कसमुत्खननाय वामचरणाङ्गष्ठकोटिविघट्टितामरगिरिवशात्, संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लङ्घनकारिकायवृद्धः सुरस्य वज्रनिष्ठुरमुष्टिघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रैलोक्यसाहाय्यनिरपेक्षतया प्रव्रज्यानन्तरमेव दिव्याधुपसर्गसंसर्गाधिसहनाङ्कीकारेण, केवलज्ञान