________________
૩૫૮
6पहेश५६ : भाग-१ पिल्लैश्च-तदपत्यैः 'जाम' त्ति यामेषु रजन्या द्वितीयतृतीयचतुर्थेषु 'जाणूरपोट्ट' त्ति क्रमेण जानुनोरूर्वो: 'पोट्टे'-उदरे च भक्षिते 'मृतः'-परासुर्जात इति ॥२१६॥
ततोऽधिसह्य तद्भक्षणव्यथां 'तद्गतचित्तो'-मनाग नलिनीगुल्मविमानगतचित्तः उपपन्नकस्तत्र-नलिनीगुल्मे 'स तु' स चेति । तेन च निजशरीरस्य गन्धोदकादिः गन्धजलावर्षणसुरभिपुष्पप्रकिरणगोशीर्षचन्दनसमालभनादिको देहसत्कारः कृतः । 'गुरुसाधनं च'- गुरुणा च कथितं तस्य वृत्तं भद्रायास्तथा वधूनाम् ॥२१७॥
'गोसे'-प्रत्युषसि तत्र गमनं भद्राया एव सवधूकायाः । तत्र च 'मृतक्रिया'शरीरसत्कारादिका तस्य विहिता । देशना भवस्वरूपविषया 'गुरूणाम्' आचार्यसुहस्तिनां पुनः प्रवृत्ता । ततः प्रव्रजनं सुभद्रायाः सवधूकायाः सम्पन्नम् । परं 'न' नैवापन्नाया:-आपनसत्त्वाया एकस्याः । तस्याः पुत्रो जात इति । अनेनायतनंदेवकुललक्षणं पितृपक्षपातात् तत्र स्थाने कृतमिति ॥२१८॥
एवमाधुचितक्रमेण-एवमादिना सम्प्रतिनृपति-अवन्तीसुकुमालप्रतिबोधप्रभृतिना उचितक्रमेण-स्वावस्थोचितप्रवृत्तिरूपेणानेकसत्त्वानां-ग्रामनगरादिषु नानाविधानां भव्यजीवानां चरणादीनि चरणं-चारित्रं देशतः सर्वतश्च, आदिशब्दात् सम्यक्त्वबीजाधानग्रहः, 'कृत्वा'-विधाय तत्तदुपायप्रयोगेण 'तकोऽपि'-आर्यसुहस्तिसूरिरपि 'गतः' प्राप्तो विधिना-पण्डितमरणाराधनरूपेण 'कालेन'-सर्वगच्छप्रयोजननिष्पादनावसानरूपेण 'सुरलोकं'-त्रिदशभवनमिति ॥२१९॥ ___ अथोपसंहरनाह–'द्वयोरपि' प्रस्तुताचार्ययोर्न पुनरेकस्यैव, 'यथायोग्यत्वं' निजनिजयोग्यत्वानतिक्रमेण 'तथा'-तत्प्रकारा 'प्रवृत्तिः' गच्छप्रतिपालनादिलक्षणा अनेकधा 'एषा' निरूपितरूपा भणिता पूर्वसूरिभिः, परं 'निपुणमत्या'-सूक्ष्माभोगेन 'विचारयितव्या' विमर्शनीया पुनः कुशलेन । अन्यत्राप्युक्तम्-"यस्माद् यो यस्य योग्यः स्यात्, तत्तेनालोच्य सर्वथा । प्रारब्धव्यमुपायेन, सम्यगेष सतां नयः" ॥१॥ હવે આર્યસુહસ્તિસૂરિના બાકીના વૃત્તાંતને કહે છે–
અવંતિસુકમાલનું કથાનક ઉત્તમ મહાગિરિસૂરિ કાળધર્મ પામે છતે ક્યારેક વિહાર કરતા, દુષ્કર સાધના કરતા આર્યસુહસ્તિસૂરિ જીવિત સ્વામીની પ્રતિમાને વંદન કરવા માટે આવ્યા. ઉજ્જૈનીની બહાર