________________
૩૫૭
64हेश५६ : भाग-१
सवणमवंतिसुकुमाल, विम्हय सरणं विराग गुरुकहणा । पव्वमि उस्सुगोऽहं, करेमि तह अणसणं सिग्धं ॥२१५॥ जणणीपुच्छमणिच्छे, मा हु सयंगहियलिंगमो दाणं । कंथारिगिणि सिवपेल्ल जाम जाणूरुपोट्ट मओ ॥२१६॥ अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सो उ । गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं ॥२१७॥ गोसम्मि तहिं गमणं, मयकिरिया देसणा गुरूणं च । पव्वयणं णावन्ना तीए पुत्तोति आयतणं ॥२१८॥ एमादुचियकमेणं, अणेगसत्ताण चरणमाईणि । काऊण तओऽवि गतो, विहिणा कालेण सुरलोयं ॥२१९॥. दुण्हवि जहजोगत्तं, तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए, वियारियव्वा य कुसलेण ॥२२०॥
अथ पूर्वोल्लिङ्गितगाथासप्तकाक्षरार्थ:-'इतरः' सुहस्ती उज्जयिन्यां विहृतः 'जियवंदण' त्ति जीवत्स्वामिकप्रतिमावन्दनार्थम् । तत्र च वसतियाञ्चा कृता 'साहु' त्ति साधुभिर्भद्रागेहे। ततः 'यानशालास्थानं'-यानशालासु समवस्थितिर्विहिता। नलिनीगुल्माध्ययने सुहस्तिना रात्रौ परिवर्त्यमाने ॥२१४॥
'श्रवणम्' आकर्णनं 'अवंतिसुकुमाले' इति अवन्तिसुकुमालेन-भद्रापुत्रेण तस्य कृतम् । ततो विस्मयः संजातः-अहो किमेतद् गीयते इति । ततोऽपि स्मरणं पूर्वभवस्य, तदनन्तरं विरागो मनुष्यभवात्। तदन्वेव समागम्य गुरोः-श्रीमदार्यसुहस्तिनः कथना स्ववृत्तान्तस्य विहिता । भणितं च 'पव्वामि' त्ति प्रव्रजामि सद्य एव उत्सुकोऽहं प्रव्रज्यां प्रति । चिरकालं प्रव्रज्याप्रतिपालनाऽसहिष्णुत्वात् करोमि, तथेति समुच्चये, अनशनं शीघ्रमिदानीमेव ॥२१५॥
गुरुणा स उक्तः जननीपृच्छाकर्तुमुचिता तव, ततोऽनिच्छे-अनभिलाषे जननी पृच्छाविषये । तस्मिन् सति ‘मा हु सयंगहियलिंगमो दाणं' त्ति मा स्वयं गृहीतलिङ्ग एष सम्पद्यतामिति दानं लिङ्गस्य तस्य गुरुणा कृतम् ततः 'कथारिंगिणि'त्ति कंथारिकुडंगे गत्वा इंगिनीमरणमधिष्ठितं तेन । 'सिवपेल्ल' त्ति शिवया-शृगाल्या