________________
૩૧૧
ઉપદેશપદ : ભાગ-૧
यद्यस्मादाज्ञायाः सकाशाच्चरणं चारित्रं देशतः सर्वतो वा जीवानां सम्पद्यते, न पुनरन्यथा । अन्यत्राप्युक्तम्-"वचनाराधनया खलु, धर्मस्तद्बाधया त्वधर्म इति । इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य ॥१॥अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः ॥२॥" एतच्चाधाकर्मादिज्ञाततः सिद्धम् । इहाधाकर्म-"सच्चित्तं जमचित्तं, साहूणट्ठाए कीरई जंच॥अच्चित्तमेव पच्चइ,
आहाकम्मं तयं बिंति ॥१॥" इत्यादिसूत्रोक्तलक्षणमन्नपानादि, आदिशब्दात् प्रासुकैषणीयस्यास्यैव ग्रहः, ततस्तदेतद् ज्ञातमुदाहरणम् । ततः सिद्धं पिण्डनिर्युक्तौ प्रतिष्ठितम् । तथा हि-क्वचित् सन्निवेशे केनचिद् मुग्धबुद्धिना दानश्रद्धालुना जैनशासनानुगतेन क्वचित् समये सर्वसयभक्तमुपकल्पितम् । वितीर्णं च पात्रपूरपूर्वकं तद्ग्राहकसाध्वाभासानाम् । श्रुतश्चायं दानव्यतिकरोऽत्यौदार्यसूचकः सन्निहितग्रामवासिना लिङ्गमात्रोपजीविना केनचित् साध्वाभासेन । प्राप्तश्चासावन्यस्मिन् दिने तंत्र । पृष्टश्च तेन श्रावकेणागमनप्रयोजनम् । भणितं च तेन, भवदौदार्यमन्तरेण नान्यत् किञ्चित् । तद्दिने चजामातृकादिः सुबहुः प्राघुर्णकलोकस्तद्गृहे समागतः । उपस्कृतश्च सूपौदनपक्वान्नादिस्तन्निमित्तमाहारः । संविभागितश्च तेन पात्रपूरमसौ भुक्तवांश्चेति ॥
तथा क्वचिन्नगरे कश्चित् क्षपको मुनिर्विहितमासदिवसोपवासः पारणकदिने तत्रानेषणां सम्भावयन् अज्ञातोञ्छवाञ्छया सन्निहितग्रामे जगाम । तत्र चैकया कुटुम्बिन्या यथाभद्रिकयाऽत्यन्तसाधुदानश्रद्धानयाऽतिभूरिक्षीरानमुपस्कृत्यादरेण दीयमानं सञ्जातशङ्को नूनं न ग्रहीष्यति एतदिति तद्ग्रहणस्यानन्योपायतां पश्यन्त्या शिक्षितानि डिम्भरूपाणि यथा-क्षपकभिक्षोभिक्षार्थमागतस्य समक्षमिदं क्षीरानं मया परिवेष्यमाणमरुचिसारैर्वचनैरनादेयतामानीय प्रतिषेधनीयम् । तथा विहितं च तैः ।क्षपकेणापि दत्तद्रव्यादितीव्रोपयोगेन सर्वोपधा शुद्धिरिति कृत्वा सर्वविद्वचनाराधनाप्रधानेन प्रतिगृहीतम् । तद् भोक्तुमारब्धस्य च "बायालीसेसणसंकडम्मि गहणम्मि जीव! नहु छलिओ । इण्डिं जह न छलिजसि, भुंजंतो रागदोसेहिं ॥१॥" इत्यादिशुभभावनाभावतः क्षपकश्रेणिप्राप्तौ केवलज्ञानमजनीति । एवं प्रथमस्य सर्वज्ञाज्ञोपयोगाभावेन शुद्धमपि पिण्डमुपाददानस्य क्लिष्टकर्मबन्धः । द्वितीयस्य तु विहितनिपुणोपयोगस्य तदशुद्धोपादानेऽपि केवलज्ञानफलो निर्जरालाभः संवृत्त इति ।अत एवोक्तं समये "आहाकम्मपरिणओ, फासुयभोईवि बंधओ भणिओ ।सुद्धंगवेसमाणो, आहाकम्मेऽवि सो सुद्धो॥१॥"तत्तस्मादेतस्मिन्नागमे प्रयत्नः