________________
૨૭૬
उपहेश५६ : (भाग-१ कुण सेइयं वलं तह, घयस्स चत्तारि चेव य गुलस्स । वणियसुयपरिन्नाणाण ताव कोवो जणणिपुच्छा ॥१५७॥ वेसमणे अहिलासो, उउण्हायाए उ सेट्ठिपासणया । संभोगो च्चिय अन्ने, ण ताव एत्तो उ संसिद्धो ॥१५८॥ पन्नवणमप्पगासण, ण एत्थ दोसो त्ति कम्मभावाओ। कुसलो त्ति तेण ठवितो, मंती सव्वेसिमुवरि तु ॥१५९॥
अथ गाथाक्षरार्थः-मण्डलसिद्धिस्तथाविधमगधादिदेशस्वामित्वलक्षणा राज्ञः समुद्रदेवस्य प्रथममभूत् । तस्य च मन्त्रिगवेषणपरस्य केनचिच्छिष्टं कथितम् । किमित्याह-सुमतिनामा द्विजवरो ब्राह्मणवरः समस्ति । कीदृश इत्याह-प्राज्ञो बुद्धिमान् अतिशयेन शेषबुद्धिमज्जनापेक्षया । अन्धश्च नयनव्यापारविकलः ॥१५१॥ __ततस्तस्यसुमतेरानयनमकारि ।ततः'चारुगपक्खम्मि'त्तिचारुकाया: प्रधानहस्तिन्याः स्वयमेव राज्ञाऽऽरूढायाः पक्षे द्वितीयभागे चटापनमारोपणं कृतम् । तस्य परीक्षार्थं प्रज्ञातिशयस्य पक्का परिणतफला पथि बदरी समस्ति । तत्फलानि भक्षणीयानि भणित्वा नरेन्द्रचलने नरेन्द्रस्य राज्ञश्चलने गन्तुं प्रवृत्तौ सत्यां प्रतिषेधः एतेन विहितः ॥१५२॥
कथमित्याह-न नैव शुभा एषा बदरी । यतः “विन्नासियम्मि'त्ति विन्यासः परीक्षा कृता । तथा चैवं वृत्ते कथं त्वया ज्ञातमिति प्रश्रे स प्राह -पथि 'अन्याग्रहणात्' पथि वर्तमानाया बदर्याः फलानामन्यैरनुपादानात् । किमत्र ज्ञानं कोऽत्रातिशयेनार्थो ज्ञातव्य इत्युत्तरे विहिते नृपतोषो जातः ॥१५३॥
ततः धूलिक्विरियामाणंति'धूलिः क्रियाकणिक्कागोधूमानांपीषणेनधूलितयाकरणात् तस्या माणकं प्रतीतरूपमेव । तथा 'गुलपलघयकरिससंनिरूवणया' इति गुडपलस्य घृतकर्षस्य च संनिरूपणं निर्वाहहेतुतया कृतम् । तेन च देवप्रसादो वर्त्तते इत्युक्त्वा 'बहुमण्णण'त्ति बहुमानगोचरतया प्रतिपन्नम् ।पुनरपिस्थिरप्रज्ञाज्ञानार्थं राज्ञा ॥१५४॥
'टाराहिवासपेसण'त्ति टारस्य खुडुकस्य तुरङ्गस्य अधिवासितस्य रात्रौ कृतपूजस्य प्रेषणंकृतं, यथा सव्वोत्तमो'त्तिसर्वोत्तमोऽयंतुरङ्गः किंगृह्यतांनवाइति ।तेनच'तप्परिक्ख' त्ति तत्परीक्षा कृता । तत्र खररोमाणि, तस्मिन् नोत्तम इति ज्ञाने जाते सुमतेः प्रसादः कृतो राज्ञा ।मानादिवृद्धिरिति द्विगुणमानादीनां पूर्वोक्तानां वृद्धिर्विहितेति ॥१५५॥