________________
१३०
अथ सरडेत्ति द्वारं
सरडहिगरणे सन्नावोसिरदर वाहि दंसणावगमो । अण्णे तव्वण्णिग चेल्लणाण पुच्छाइ पुरिसादी ॥८४॥
पहेशपE : भाग-१
'इह किल कश्चिद्वणिक् क्वचिद् बहुरन्ध्रायां भुवि पुरीषमुत्स्त्रष्टुमारब्धः । तत्र च दैवसंयोगात् 'सरडहिगरणे' इति द्वयोः सरटयोरधिकरणं युद्धमभूत् । तत्र चैकः 'सन्नावोसिरदरि' त्ति संज्ञां व्युत्सृजतो वणिजः पुच्छेनापानरन्ध्रमाच्छोट्य तदधोभागवर्त्तिन्यां दर्यां प्रविष्टः । अन्यस्तु तददृष्ट एव पलाय्यान्यत्र गतः । एवं च तस्यात्यन्तमुग्धमतेः शङ्का समुत्पन्ना - यदयमेकः सरटो नोपलभ्यते तन्नूनं ममापानरन्ध्रेणोदरं प्रविष्टः इत्येवं शङ्कावशेन 'वाहि' त्ति व्याधिस्तस्याभूदुदरे । निवेदितं च तेन तथाविधवैद्याय यथा ममायं वृत्तान्तः संपन्नः । वैद्येनापि स प्रतिपादितः - 'यदि मम दीनारशतं वितरसि तदा त्वामहं नीरुजं करोमि इति । अभ्युपगतं चैतत्तेन । ततो वैद्येन लाक्षारसविलिप्तमेकं सरटं विधाय घटमध्ये च प्रक्षिप्य विरेचकौषधप्रयोगेण पुरीषोत्सर्गमसौ कारितस्तत्र । ततः 'दंसणावगणो' इति पुरीषवेगाहतसरटस्य घटान्निर्गतस्य दर्शनेऽपगमो विनाशः संपन्नो व्याधेरिति । अत्रैव मतान्तरमाह । अन्ये आचार्या एवं ब्रुवन्ति - 'तव्वण्णिगचेल्लणाण पुच्छाए' इति तृतीयवणिकः शाक्यभिक्षुः क्षुल्लकश्च लघुश्वेताम्बरव्रती, तयोः परस्परं पृच्छायां प्रवृत्तायां सत्यां क्षुल्लकेन पुरुषादि इति किमयं पुरुषः उत स्त्रीत्युत्तरं दत्तम् । अयमत्र भावः - क्वचित् प्रदेशे केनापि शाक्यभिक्षुणा सरटो नानाविकारैः शिरश्चालयन्नुपलब्धः । तदनु कथंचित् तत्प्रदेशे समागतः क्षुल्लकः । तेन सोपहासमेवं पृष्टः–“भो भोः क्षुल्लक ! सर्वज्ञपुत्रकस्त्वं, तत्कथय किं निमित्तमेष सरटः शिरो धूनयत्येवं ?' 'तदनु तत्क्षणौत्पत्तिकी बुद्धिसहायः क्षुल्लकस्तस्यैवमुत्तरं दत्तवान्, यथा"भो भोः शाक्यव्रतिन्नाकर्णय - अयं सरटो भवन्तमालोक्य चिन्ताक्रान्तमानसः सन्नूर्ध्वमधश्च निभालयति, किं भवान् भिक्षुरुपरि कूर्चदर्शनात्, उत भिक्षुकी लम्बशाटकदर्शनादिति ॥ ८४ ॥
हवे 'सरर' मे द्वाराने हे छे
ગાથાર્થ– બે કાચંડાનું યુદ્ધ, સ્થંડિલ જવું, જોવું, વ્યાધિ, ઘડામાંથી નીકળતા કાચંડાને જોવું બીજા આચાર્યો કહે છે કે બૌદ્ધસાધુ અને ક્ષુલ્લકની પૃચ્છા પુરુષ-સ્ત્રીનું જોવું ઉત્તર. (૮૪)
અહીં કોઇક વણિક ક્યાંક ઘણા દરવાળી ભૂમિ ઉપર સ્થંડિલ કરવા ગયો અને ત્યાં ભાગ્યયોગે બે કાચંડાનું યુદ્ધ થયું. તેમાંનો એક કાચંડો સંજ્ઞા (ઝાડા) ને કરતા વણિકના ગુદાને