________________
ઉપદેશપદ : ભાગ-૧ जाणविवत्ती फलगं, तीरे उदगत्थि सीह वाणरए । सिरिउररण्णो सुंदरिगहरागे निच्छ कहधरणा ॥३१॥ चित्तविणोए वाणरणट्टम्मी जाइसरणसंवरणं । देवपरिच्छा नियरूवकहण रण्णो उ संबोही ॥३२॥ सावत्थी सिद्धगुरूविउव्वदिक्खा परिच्छ सामइए । आलावगा णिमित्ते, अदाण कोवेतरा देवे ॥३३॥ लोगपसंसा सव्वण्णुसासणं एरिसं सुदिटुं ति । बोहीबीयाराहण, एवं सव्वत्थ विण्णेयं ॥३४॥
अत्राक्षरार्थः-'चंपा धण सुंदरि 'त्ति चंपानगर्यां धनो नाम श्रेष्ठी अभूत्, तस्य सुन्दरी तनया । तामलित्ति वसुनंद त्ति ताम्रलिप्त्यां पूर्वपारावारतीरवर्त्तिन्यां पुरि वसुश्रेष्ठी, तस्य चनन्दो नन्दनः समुत्पन्नः। सङ्घसंबंधो 'त्ति तौ द्वावपि श्रेष्ठिनौ श्राद्धौ श्रावकाविति।संबन्धः स्वापत्यवैवाह्यलक्षणः कृतस्ताभ्याम् । ततः 'सुंदरिनंदे पीई' इति नन्दसुन्दर्योः परस्परं प्रीतिः प्रकर्षवती संपन्ना । समये'क्वापि प्रस्तावे'परतीरं' जलधिपरकूलंनन्दः ससुन्दरीको ययौ । तदन्वागमने प्रत्यावर्त्तने परतीरात् ॥३०॥'यानस्य' प्रवहणस्य विपत्ति'विनाशः संपन्नस्ततः फलकं' काष्ठशकलमासाद्य 'तीरे' एकस्मिन्नेव वेलाकूले द्वे अप्युत्तीर्णे। तत उदकार्थी परिक्राम्यन्नन्दः सिंहेन हतः सन् वानरः संजातः । इतश्च, श्रीपुरराजेन सुन्दर्या 'ग्रहो' ग्रहणं कृतम् । 'राग'श्चाभिष्वङ्गस्तस्यामेव तस्य जातः । 'निच्छकहधरणा' इति प्रार्थिता च सा तेन सविकारं, परं तया न इच्छा अभिलाषरूपा दर्शिता, तदनु तस्यास्ताभिस्ताभिः कथाभिर्विनोदहेतुभिर्धरणंकालयापनं प्रारब्धं भूभुजा ॥३१॥'चित्तविणोए' इति चित्तविनोदमात्रे च तस्य संपन्ने अन्यदा'वानरनट्टम्मि'त्ति वानरेण नन्दजीवेन नृत्ये प्रारब्धे सति जातिसरण' जातिस्मरणमासादितम्। तदनुसंवरणमनशनं विहितं तेन। 'देव'त्ति देवस्तदनन्तरमभूद्वानरजीवः । परीक्षा कृता तेन सुन्दरीशीलस्य ।ततोऽथ निजरूपमादर्शितम् । कहण'त्ति कथनं च समग्रस्यापि प्राच्यवृत्तान्तस्य ।'रण्णो उसंबोहि'त्ति राज्ञः पुनः संबोधिः सम्यग्बोधः प्रादुर्भूतः ॥३२॥ ततः श्रावस्त्यां नगर्यां सिद्धगुरू' इति सिद्धाभिधानसूरीणां 'विउव्वदिक्खा' इति वैक्रियरूपेण विहितदीक्षां सुन्दरी विधाय 'परिच्छ' त्ति परीक्षा सामाइए आलावगनिमित्ते' इति सामायिकालापकनिमित्तं विहिता देवेन । अदाण'त्ति सामायिकालापकस्याप्रदाने कृते सति गुरुणा, कोवेयरा' इति कोपेतरौ