________________
उपदेशपर : भाग-१
૬૧
'अस्संखोसप्पिणिसप्पिणीउ त्ति प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सर्पिण्यवसर्पिण्यः । तत्रोत्सर्पयति प्रथमसमयादारभ्य निरन्तरं वृद्धिं नयति तैस्तैः पर्यायैर्भावानित्युत्सर्पिणी । तथा च पञ्चकल्पभाष्यं - " समए समएऽणंता, परिवडुंता उ वण्णमाईया । दव्वाणं पज्जायाऽहोरत्तं तत्तिया चेव ॥ १ ॥ " तद्विपरीता त्ववसर्पिणी । तुरेवकारार्थो भिन्नक्रमस्ततोऽसंख्याता एवैकेन्द्रियाणां, तुरप्यर्थे भिन्नक्रमः, 'चतुर्णामपि ' पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्बोद्धव्येति संबन्धः । ' ता चेव उ' ता एव चोत्सर्पिण्यवसर्पिण्योऽनन्ताः वनस्पतौ तु 'वनस्पतिकाये पुनर्बोद्धव्या' कायस्थितिरुत्कृष्टेति।किमुक्तं भवति ? पृथिव्यप्तेजोवायुकायिकेषु जीवो मृत्वा पुनः पुनरुत्पद्यमान एकैककाये असंख्याता उत्सर्पिण्यवसर्पिणीर्यावदास्ते, वनस्पतिकायिकेषु तु प्राणिषूत्पद्यमानस्ता एवोत्सर्पिण्यवसर्पिणीरनन्ता गमयत्युत्कृष्टतः, जघन्यतस्त्वन्तर्मुहूर्त्त - मेवेति । अथोत्सर्पिण्यवसर्पिण्योः किं प्रमाणम् ? उच्चते - द्वादशारकालचक्रमुत्सर्पिण्यवसर्पिण्यौ । तत्स्वरूपं यथा - दस कोडाकोडीओ सागरोवमाओ हुंति पुन्नाओ । उस्सप्पिणीपमाणं तं चेवोसप्पिणीए वि ॥१ ॥ छच्चेव कालसमया हवंति ओसप्पिणीए भरहम्मि । तासं नामविहत्तिं अहक्कमं कित्तइस्सामि ॥ २ ॥ सुसमसुसमा य सुसमा तइया पुण सुसमदुस्समा होइ । दुसमसुसमा चउत्थी दूसम अइदूसमा छट्ठी ॥ 3 ॥ एए चेव विभागा हवंति उस्सप्पिणीइ छ च्चेव । पडिलोमा परिवाडी नवरि विभागेसु नायव्वा ॥४॥ सुसमसुसमाइ कालो चत्तारि हवंति कोडिकोडीओ तिण्णि सुसमाइकालो दुन्नि भवे सुसमदुसमाए ॥५ ।। एक्का कोडाकोडी बायालीसाइ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ॥ ६ ॥ अह दूसमाए कालो वाससहस्साइं एक्कवीसं तु । तावइओ चेव भवे कालो अइदूसमाए वि ॥७ ॥ इत्यादि । एवं द्वाम्यामुत्सर्पिण्यवसर्पिणीभ्यां कालचक्रं द्वादशारं विंशतिसागरोपमकोटाकोटिप्रमाणम् । तत्र च यथोत्तरं कालानुभावस्वरूपं ग्रन्थान्तरादवसेयम् । विकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कायस्थितिरनया गाथया ज्ञेया, यथा - " वाससहस्सासंखा, विगलाण ठिई उ होइ बोद्धव्वा। सत्तट्ठ भवा उ भवे, पणिंदितिरिमणुय उक्कोसा ॥१॥" ॥१७॥ इति ।
એકેન્દ્રિયના તે જ પૃથ્વીકાય વગેરે પાંચ જ ભેદોને આશ્રયીને કાયસ્થિતિને બતાવતા ગ્રંથકાર કહે છે— ગાથાર્થ– ચાર એકેન્દ્રિયોની કાયસ્થિતિ અસંખ્યાતી જ ઉત્સર્પિણી-અવસર્પિણી છે. વનસ્પતિની તો કાયસ્થિતિ અનંતી ઉત્સર્પિણી-અવસર્પિણી જાણવી.