________________
ષોડશક પ્રકરણ - ૫
(69) न ज्ञेयविषयविभागेन चेतसि व्यवस्थितं, आगमवचनापरिणतौ कारणमाह-अमृतरसास्वादज्ञः घुमान् को नाम ?, न कश्चिद् विषे मारणात्मके प्रवर्तेत भक्षयितुं प्रवृत्तिं विदधीत विषप्रवृत्तिकल्पाऽविधिसेवा ततो विज्ञायते नागमवचनं सम्यक्परिणतमिति ।।७।।
: योगदीपिका : ज्ञानफलाभावलक्षणापरिणामस्य अपि अविधिसेवा लिङ्गमित्याह-येषामित्यादि ।
येषां जीवानाम् एषा-अविधिसेवा तेषाम् आगमवचनं न सम्यक्-फलोपधानेन परिणतं, को नामामृतरसास्वादज्ञः पुमान् विषे प्रवर्तेत-भक्षणप्रवृत्तिं विदध्याद् ? विषप्रवृत्तिकल्पामविधिसेवां--- तत्त्वतो नागमवचनं फलतः परिणतमिति भावः ॥७॥
तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु, स चाधिकारी भवत्यस्याः ॥८॥
विवरणम् : प्रतिषेधमुखेनोक्तमर्थं विधिमुखेनागमवचनपरिणामाश्रयमाह - तस्मादित्यादि।
तस्माच्चरमे-अवसानवृत्तौ नियमाद्-नियमेन आगमवचनं पूर्वोक्तंइहपुद्गलावर्तेप्रागुक्ते परिणमति-उत्तरोत्तरपरिणामविशेषमासादयति, स्वरूपेण परिस्फुरतीत्यर्थः, तत्त्वतः खलु-तत्त्वत एव, यस्यैतदागमवचनं परिणमतिस चाधिकारी-अधिकारवान् भवत्यस्याःलोकोत्तरतत्त्वसम्प्राप्तेः, शेषस्त्वनधिकारीति ॥८॥
: योगदीपिका: निषेधमुखेनोक्तं विधिमुखेनाह - तस्मादित्यादि ।
तस्माच्चरमे पुद्गलावर्ते नियमेन इह-जगति आगमवचनं तत्त्वतः खलु-परमार्थत एव परिणमति उत्तरोत्तरफलमुपदधाति, स च-परिणतागमवचनः अस्या लोकोत्तरतत्त्वसम्प्राप्तेरधिकारी भवति, न शेषः ॥८॥
आगम-वचन-परिणतिर्भव-रोग-सदौषधं यदनपायम् ।
तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥९॥ (०षधं भवति यस्मात् । निरपायं तदिह परः सद् इति पाठान्तरम् ।)
આગમવચન પરિણામ પામે તો નિશ્ચિતપણે છેલ્લા પુદ્ગલપરાવર્તમાં જ પરિણામ પામે છે અને ઉત્તરોત્તર વધતી જતી પરિણતિરૂપ બને છે. વસ્તુતઃ આગમવચન જેને પરિણામ પામે તે જ લોકોત્તરતત્ત્વની સંપ્રાપ્તિનો અધિકારી બને છે. ૮
આગમતત્ત્વની પરિણતિ વિનાનો જીવ લોકોત્તરતત્ત્વની પ્રાપ્તિ માટે અનધિકારી છે. પ્રશ્નઃ શા માટે આગમતત્ત્વની પરિણતિની આટલી બધી પ્રશંસા કરો છો? એનું આટલું મહત્ત્વ पताको छो? ઉત્તરઃ આગમવચનની સાચી પરિણતિ જ સંસારરૂપી રોગનું ઔષધ છે. સંસારને મૂળમાંથી