________________
॥अथ चतुर्थः सद्धर्मसिद्धिलिङ्गाधिकारः॥ सिद्धस्य चास्य सम्यग, लिङ्गान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः , सुखावबोधाय भव्यानाम् ॥१॥
-: विवरणम् : 'अस्य स्वलक्षणमिदं धर्मस्य' इत्युक्तं प्राक्, तत्रास्यैव धर्मस्वतत्त्वस्य विस्तरेण लिङ्गान्याह - सिद्धस्य चेत्यादि। .. सिद्धस्य च-निष्पन्नस्य च अस्य-प्रत्यक्षीकृतस्य सम्यग्-अवैपरीत्येन प्रशस्तानि वा लिङ्गानि-लक्षणानि एतानि-वक्ष्यमाणानि धर्मतत्त्वस्य-धर्मस्वरूपस्य विहितानिशास्त्रेऽभिहितानितत्त्वविद्भिः -परमार्थवेदिभिः सुखावबोधाय-सुखपरिज्ञानाय, येन तानि सुखेनैव बुध्यन्ते भव्यानां-योग्यानाम् ॥१॥
: योगदीपिका : धर्मस्य स्वलक्षणमुक्तमथास्य विस्तरेण लिङ्गान्याह-सिद्धस्य चेत्यादि ।
सिद्धस्य-निष्पन्नस्य - चास्य-धर्मतत्त्वस्य-धर्मस्वरूपस्य सम्यग्-अवैपरीत्येन लिङ्गानि-लक्षणानि तत्त्वविद्भिः परमार्थज्ञैः विहितानि-शास्त्रेऽभिहितानि भव्यानां-योग्यानां सुखावबोधाय-सुखप्रतिपत्तये ॥१॥ .
औदार्यं दाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः। लिङ्गानि धर्मसिद्धेः, प्रायेण जनप्रियत्वं च ॥२॥
विवरणम् : तान्येव लिङ्गानि स्वरूपतो ग्रन्थकारः पठति-औदार्यमित्यादि। .
उदारस्य भावः औदार्य-वक्ष्यमाणलक्षणं, दक्षिणः अनुकूलस्तद्भावो दाक्षिण्यं-निर्देक्ष्यमाणस्वरूपं, पापजुगुप्सा-पापपरिहारः, अथ निर्मलो बोधः अभिधास्यमानस्वरूपः, लिङ्गानि-चिह्नानि धर्मसिद्धेः-धर्मनिष्पत्तेः प्रायेणबाहुल्येन जनप्रियत्वं च-लोकप्रियत्वं च ॥२॥
૪ – અરદ્ધર્મઢિલગ ષોડાક જ્ઞાની મહાપુરુષોએ ભવ્ય જીવો સુખપૂર્વક જાણી શકે એ માટે સિદ્ધ થયેલા - પ્રાપ્ત થયેલા ધર્મનાં પાંચ લક્ષણો શાસ્ત્રોમાં નીચે મુજબ કહ્યાં છે. ૧
(१) सौहार्य (२) क्षिश्य (3) पाणुगुप्सा, (४) निगलो५ सने (५) ujशने જનપ્રિયત્વ. ૨