________________
४५)
घोsassरश-3 . एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीवः । चिरकालाऽऽसेवितमपि न जातु बहु मन्यते पापम् ॥१५॥
: विवरणम् : एवमित्यादि । एवं त्वपूर्वकरणात्-एवमेवापूर्वकरणाद् अपूर्वपरिणामात् सम्यक्त्वामृतरसज्ञ इह जीवः सम्यक्त्वामृतरसमनुभवद्वारेण जानातीति तज्ज्ञ उच्यते, चिरकालासेवितमपि-प्रभूतकालाभ्यस्तमपि न जातु-न कदाचिद् बहु मन्यते-बहुमानविषयीकरोति पापं-मिथ्यादर्शनमोहनीयं तत्कार्यं वा प्रवचनोपघातादि, इह च कुभक्तरसकल्पं पापं मिथ्यात्वादि, अमृतरसास्वादकल्पो भावः सम्यक्त्वादिरवसे य इति ।।१५।।।
: योगदीपिका : एवं त्वित्यादि । एवं तु एवमेव अपूर्वकरणाद् अपूर्वपरिणामात् सम्यक्त्वामृतरसज्ञ इह-जगति जीवः चिरकालम्-प्रभूत-भवान् यावद् आसेवितम्-अभ्यस्तमपि न जातु कदाचिद् बहुमन्यते-उत्कटेच्छाविषयीकरोति पापं-मिथ्यात्वमोहनीयं तत्कार्यं वा प्रवचनोपघातादि । इह कुभक्तरसकल्पं पापं मिथ्यात्वादि, अमृतरसास्वादकल्पो भावः सम्यक्त्वादिरवसेयः ॥१५॥
यद्यपि कर्मनियोगात्, करोति तत् तदपि भावशून्यमलम् । अत एव धर्मयोगात्, क्षिप्रं तत्सिद्धिमाप्नोति ॥१६॥
विवरणम् : 'सम्यक्त्वामृतरसज्ञो जीव: पापं न बहुमन्यत' इत्युक्तं, तत्र सम्यग्दृष्टिरपि विरतेरभावात् पापं कुर्वन् दृश्यत एवेत्याशङ्कयाह-यद्यपीत्यादि ।
यद्यपि-कथञ्चित् कर्मनियोगात्-कर्मव्यापारात् करोति विदधाति तत्-पापं तदपि भावशून्यमलं तदपि-क्रियमाणं पापं भावशून्यम्, इह पापवृत्तिहेतुर्भावः क्लिष्टाध्यवसायस्तेन शून्यं, अलम्-अत्यर्थम्, सम्यग्दृष्टिर्हि पापं कुर्वाणोऽपि न भावतो बहु मन्यते, यथा 'इदमेव साधु' इति, अत एव-पापाबहुमानद्वारेण धर्मयोगाद्-धर्मोत्साहाद् धर्मसम्बन्धाद्वा क्षिप्रम्अचिरेण तत्सिद्धिमाप्नोति-धर्मनिष्पत्तिमवाप्नोति ॥१६॥
કરે અને પાપનું બહુમાન ન હોય તે કેવી રીતે બને? તેનું શું? ઉત્તરઃ જો કે એ જીવ તેવા પ્રકારના કર્મના ઉદયથી પાપ કરે છે પણ એ પાપ ભાવપૂર્વક એટલે કે ક્લિષ્ટ અધ્યવસાયથી કરતો નથી. સમ્યગુદૃષ્ટિ આત્માની પાપ પ્રવૃત્તિ રસપૂર્વકની હોતી નથી; તેથી એની એ પાપપ્રવૃત્તિને તપાવેલા લોખંડના પતરા ઉપર ન છૂટકે પગ મૂકવા જેવી કહી છે,