________________
(१७७
ષોડશક પ્રકરણ - ૧૩. एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्न-योगानाम् ॥१२॥
विवरणम् : निष्पन्नयोगानां चित्तं किमेतत्सहितं ?, नेत्याह-एतदित्यादि ।
एतद्रहितं तु-मैत्र्यादिभावनारहितं तु तथा-तेन प्रकारेण इतरासम्भविना तत्त्वाभ्यासात्-परमार्थाभ्यासात् तत्स्वरूपाभ्यासाद्वापरार्थकार्येव-परोपकारकरणैकशीलमेव, सद्बोधमात्रमेव हि-निर्मलज्ञानमात्रमेव हि शेषदोषवियुक्तं चित्तं-चेतनास्वभावं निष्पन्नयोगानां-योगिविशेषाणां तु लिङ्गं चेदम् -
दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी। वैरादिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥१॥॥१२॥
: योगदीपिका : एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तम्, निष्पन्नयोगानां तु चित्तं कीदृशमित्याहएतदित्यादि।
एतदहितं तु निर्विकल्पसंस्कारेफ मैत्र्यादिभावनानाशात्-तद्रहितमेव तथा-तेन प्रकारेणेतरासम्भविना तत्त्वाभ्यासात्-परमार्थाभ्यासात्प्रकृष्ट-भावना-जनित-तद्विप्रमुक्ततत्त्वज्ञानाहितसंस्कारादित्यर्थः । परार्थकार्येव-परोपकारैकशीलमेव सद्बोधो-निर्मलज्ञानं तन्मात्रमेव हि-शेषदोषरहितं चित्तं निष्पन्नयोगानाम्, तल्लक्षणं चेदम् -
"दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥"
पूर्वलक्षणं चैतत् - "अलौल्यमारोग्यमनिष्ठरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥१॥" मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च ।
द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वं च तथा परं स्याद् इति ॥१२॥ આહારની લોલુપતા ન હોય, આરોગ્ય સારું હોય, સ્વભાવમાં કઠોરતા ન હોય, દેહ સુગંધી હોય. મળમૂત્રનું પ્રમાણ અલ્પ હોય, નંતિ - પ્રસન્નતા - સ્વરની સૌમ્યતા, ચિત્ત મૈથ્યાદિ ભાવનાઓથી યુક્ત હોય, પાંચ ઇન્દ્રિયના વિષયોથી વિરક્ત હોય, પ્રભાવશાળી અને વૈર્યયુક્ત હોય, રાગ-દ્વેષાદિ ભાવોથી પરાભવ પામનારું ન હોય, સાધનામાં જરૂરી ઈષ્ટ વસ્તુઓનો સહજ રીતે લાભ થતો હોય તેમ જ શ્રેષ્ઠ કોટિની જનપ્રિયતા હોય આ योवृत्तिनुं प्रथम यिड्न छ. ११- १२.