________________
(१७)
ષોડશક પ્રકરણ - ૧૩ चतुर्विधोपेक्षा । करुणा मोहयुतकरुणा तत्सारोपेक्षा प्रथमा, यथा कश्चिदातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्याहितं जानानोऽपि तन्निवारणमवधीर्योपेक्षां करोति माभूदनुकम्पाभङ्ग' इति । अनुबन्धः फलसिद्ध्यन्तः कार्यविषय: प्रवाह-परिणामस्तत्सारा द्वितीया, यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादौ न प्रवर्तते तं चाऽप्रवर्तमानमन्यदा तद्धितार्थी प्रवर्तयति, विवक्षिते तु काले परिणामसुन्दरकार्य-सन्तानमवेक्षमाणो माध्यस्थ्यमवलम्बत इति । निर्वेदो भववैराग्यं तत्सारा तृतीया यथा चतृसृषु गतिषु नानाविधदुःखपरम्परामनुभवतो जीवस्य कथञ्चिन्मनुजदेवगतिषु सर्वेन्द्रियाह्लादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्वाभ्यां तस्मिन्नुपेक्षा । तत्त्वं वस्तुस्वभावस्तत्सारा चतुर्थी, या मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वेन स्वापराधमेव मोहविकारसमुत्थं भावयतः स्वरूपव्यवस्थितवस्त्वपराधमपश्यतो बाह्यार्थेषु सुखदुःखहेतुतानाश्रयणान्माध्यस्थ्यमवलम्बमानस्य भवति ॥१०॥
एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं, श्राद्धानां परिणमन्त्युच्चैः ॥११॥
:विवरणम् :केषां पुनरेताश्चतस्रो मैत्र्याद्याः परिणमन्तीत्याह-एता इत्यादि ।
एता:-प्रागुक्ताः खलुशब्दः पुनःशब्दार्थे अभ्यासात्-परिचयात् पुनः पुनरावृत्तेः क्रमेण-आनुपूर्व्या वचनानुसारिणां-आगमानुसारिणां पुंसां-मानवानां सवृत्तानांसच्चरित्राणां सततं-अनवरतं श्राद्धानां-श्रद्धायुतानांपरिणमन्ति- आत्मसाद्भवन्ति, उच्चैःअत्यर्थम् ॥११॥
: योगदीपिका : केषां पुनरेताश्चतस्रः परिणमन्तीत्याह-एता इत्यादि।
एताः-प्रागुक्ताः खलु-पुनः अभ्यासात्-पुनः पुनरावृत्तेः क्रमेण-आनुपूर्व्या वचनानुसारिणाम्-आगमपुरस्कारिणांपुंसां-पुरुषाणांसवृत्तानां- सच्चारित्राणां सततम्अनवरतं श्राद्धानां-श्रद्धायुक्तानां परिणमन्ति-आत्मसाद्भवन्ति, उच्चैः-अत्यर्थम् ॥११॥
નિષ્પન્નયોગીઓનું સ્વરૂપ એમના દોષોનો નાશ થયેલો હોય છે. ચિત્તવૃત્તિ ઉત્તમકોટિની હોય છે. ઔચિત્યનું પાલન સુંદર કોટિનું હોય છે. સમતા પણ મહાન હોય છે, તેમના સાન્નિધ્યમાં વૈર-વિરોધનો નાશ થાય છે. બુદ્ધિ સત્યનો જ પક્ષ કરનારી હોય છે. નિષ્પન્નયોગીઓને ઓળખવાનાં આ ઉત્તમલક્ષણો છે.
પૂર્વે કહેલી મૈત્રાદિચાર ભાવના નિષ્પન્નયોગની પૂર્વભૂમિકામાં રહેલા યોગાભ્યાસીને હોય છે. એ યોગાભ્યાસીને ઓળખવાનાં લક્ષણો નીચે મુજબ છે.