________________
ષોડશક પ્રકરણ - ૧૨ तथा दीक्षित इह प्रक्रमे साधूनां सच्चेष्टा-विनयादिरूपा तां साधुसच्चेष्टाम् ॥१६॥ इत्याचार्यश्रीमद्यशोभद्रसूरिकृतषोडशाधिकारविवरणे द्वादशोऽधिकारः ।
: योगदीपिका : अस्यैव दीक्षावतः प्रागुत्तरकालभाविगुणयोगमाह-ध्यानेत्यादि । .. ध्यानं स्थिराध्यवसानरूपं धर्म्य शुक्लं च । यथोक्तम् -
“एकालम्बनसंस्थस्य सदृश-प्रत्ययस्य च ।
प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानमुच्यते ॥" अध्ययनं-स्वाध्यायपाठस्तयोरभिरतिः-अनवरतप्रवृत्तिः प्रथमम्-आदौ दीक्षासम्पन्नस्य भवति, पश्चात्तु-तन्मयता ध्येयगुणमयत्वं भवति, तथा सूक्ष्मानामर्थानां बन्ध-मोक्षादीनामालोचनया संवेगो-मोक्षाभिलाषः स्पर्शेन-तत्त्वज्ञानेन योगःसम्बन्धश्च भवति ॥१४॥
स्पर्शस्य लक्षणं फलातिशयं चाह-स्पर्श इत्यादि ।
तस्य-विवक्षितस्य वस्तुनस्तत्वं-अनारोपितं रूपं तस्याप्तिः-उपलम्भः स्पर्शः, स्पृश्यतेऽनेन वस्तुतत्त्वमिति निरुक्तेः । अन्यत्तु-अविदितं-कथञ्चिद्वस्तुग्राहित्वेपि प्रमाणपरिच्छेद्य-सम्पूर्णाग्राहित्वेन-अनिश्चितं संवेदनमात्रं तत्त्वपरामर्शशून्यं स्पर्शाख्यं ज्ञानमित्यर्थः । वन्ध्यमपि विफलमपि स्यादेतत् संवेदनमात्रं स्पर्शस्तु स्पर्शः पुनरक्षेपेणाविलम्बेन तत्-स्वकार्यं फलं ददाति यः स तथा । अयमनयोः स्पर्शान्यज्ञानयोविशेषः ॥१५॥
संवेगस्पर्शयोगेन परिणतदीक्षाभावो यत्करोति तदाह-व्याधीत्यादि ।
व्याधिना कुष्ठादिना-अभिभूतो ग्रस्तोयद्वद्-निविण्णो-निर्वेदं ग्राहितस्तेन व्याधिना, तस्य व्याधेः क्रियां-प्रतिक्रियांयत्नादादरात्करोतिसम्यग्-अवैपरीत्येनतद्वत् तथा दीक्षितः, इह-प्रक्रमे साधूनां सच्चेष्टां विनयादिरूपाम् ॥१६॥
इति न्यायविशारद-महोपाध्याय श्रीमद् यशोविजय गणि प्रणीत 'योगदीपिका' व्याख्यायां द्वादशोऽधिकारः ॥
॥ इति दीक्षाधिकारित्वाधिकारः ॥
ચિકિત્સા-દવા પ્રયત્નપૂર્વક સારી રીતે કરે છે, એ જ રીતે દીક્ષિત સાધુ વિનયાદિરૂપ સાધુસચ્ચેષ્ટાનું - સાધુના સુંદર આચારોનું સારી રીતે પાલન કરે છે. ૧૬.
जारभुं षोडश समाप्त......