________________
ષોડશક પ્રકરણ - ૧૦
(१३) वचनानुष्ठानमसङ्गानुष्ठानं, तत्त्वाभिज्ञैः-स्वरूपाभिज्ञैः परमपदसाधनं-मोक्षसाधनं सर्वमेवैतच्चतुर्विधम् ॥२॥
: योगदीपिका : तदेव भेदत आह-तदित्यादि।
तत्-सदनुष्ठानं प्रीतिभक्तिवचनासङ्गा एते शब्दा उपपदानि-पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं शब्दितं तत्त्वाभिज्ञैः-तत्त्वविद्भिः परमपदस्य मोक्षस्य साधनं सर्वमेवैतच्चतुर्विधं प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं वचनानुष्ठानं असङ्गानुष्ठानं च ॥२॥
यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति, यच्च तत् प्रीत्यनुष्ठानम् ॥३॥
:विवरणम् : तत्राद्यरूपमाह - यत्रेत्यादि।
यत्रानुष्ठाने आदरः-प्रयत्नातिशयोऽस्ति परमः, प्रीतिश्च-अभिरुचिरूपा हितोदयाहित उदयो यस्याः सा तथा भवति कर्तुः- अनुष्ठातुः शेषत्यागेन-शेष-प्रयोजन-त्यागेन तत्काले करोति यच्चातीव धर्मादरात् तदेवंभूतं प्रीत्यनुष्ठानं विज्ञेयम् ॥३॥
: योगदीपिका : तत्राद्यस्वरूपमाह-यत्रेत्यादि।
यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति, प्रीतिश्चाभिरुचिरूपा हित उदयो यस्याः सा, तथा भवति कर्तुरनुष्ठातुः शेषाणां प्रयोजनानां त्यागेन च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् ॥३॥
गौरव-विशेष-योगाद् बुद्धिमतो यद्विशुद्धतर-योगम् । क्रिययेतर-तुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥४॥
(૧) પ્રીતિ અનુષ્ઠાનનું સ્વરૂપ જે અનુષ્ઠાનમાં પ્રયત્ન સારો - શ્રેષ્ઠ હોય, શ્રેષ્ઠકોટિની અભિરુચિ હોય કે જે અભિરુચિ અનુષ્ઠાન આચરનારના હિતનો ઉદય કરનારી હોય અને ધર્મ ઉપરના અત્યંત આદરથી બીજું બધું કાર્ય છોડીને, એક નિષ્ઠાથી તે કાળે એ જ અનુષ્ઠાનને સેવવું ते प्रीति अनुदान. 3
(૨) ભક્તિ અનુષ્ઠાનનું સ્વરૂપ : ક્રિયાથી – બાહ્યક્રિયાથી પ્રીતિ અનુષ્ઠાન જેવું જ આ અનુષ્ઠાન હોવા છતાં પૂજનીયતાના ભાવના કારણે બુદ્ધિમાન આત્માનું વિશુદ્ધ ક્રિયાવાળું અનુષ્ઠાન તે ભક્તિ અનુષ્ઠાન. ૪