________________
कारिका १२१-१२२ ] प्रशमरतिप्रकरणम्
क्षणविपरिणामधर्मा मानामृद्धिसमुदयाः सर्वे ।
सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः १२१ ॥
टीका-क्षणेन विपरिणामधर्माः। विशब्दः कुत्सायाम् । कुत्सितः परिणामधर्मः :-स्वतः प्रीतिकारिणः सन्तोऽप्रीतिकारिणः परिणतिविशेष जायन्ते, स्वल्पेनैव कालेनान्यस्वभावा भवन्ति। मरणधर्माणो माः, तेषामृद्धिसमुदयो विभूतिसमुदया धनधान्यहिरण्यसुवर्णादयः सर्वे दक्षिणोत्तरमधुरांद्वयनिवासिवणिग्द्वयविभूतिसमुदयवत् अन्यथात्वञ्च प्रतिपन्नाः शोकहेतवो नियमे न स्युः । संयोगाः पुत्रपत्नीप्रभृतयो विप्रयोगान्ता एव भवन्ति । न खलु कश्चित्संयोगोऽस्त्यात्यन्तिकः । इति भावयतोभलाषस्तेषु न भवतीति ॥ १२१ ॥
अर्थ-मनुष्यों की सभी सम्पदा क्षणभरमें बदलनेवाली है । और सभी संयोग अन्तमें वियोगवाले होनेके कारण शोकको पैदा करते हैं।
भावार्थ-मनुष्य स्वभावसे ही मृत्युका आहार है । उसकी धन-धान्य सम्पदा भी क्षणभरमें ही हवा हो जाती है । जो वस्तुएँ उसे आज प्यारी लगती हैं, वे ही कल बुरी लगने लगती हैं । पत्नी, पुत्र वगैरहका सम्बन्ध भी अन्तमें वियोगके लिए ही होता है । कोई सम्बन्ध सर्वदा नहीं रहता । अतः उससे रंज ही होता है । ऐसा विचार करते रहनेसे उनमें अभिलाषा नहीं होती है ।
'तस्मान किञ्चिद् विषयसुखाभिलाषेण ' इति दर्शयन्नाहअतः विषय-सुखकी अभिलाषा करना व्यर्थ है, यह बतलाते हैं :
भोगसुखैः किमनित्यैर्भयबहुलैः कांक्षितैः परायत्तैः ।
नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥ १२२॥
टीका-भुज्यन्त इति भोगाः शब्दादयः, तजानितानि सुखानि भोगसुखानि । तानि चोक्तन न्यायेनानित्यानि। 'किम्' इति क्षेपे। 'न किञ्चिदेभिः' इत्यभिप्रायः। भावयन् चौरदायादाग्निभूपतिभ्यो नित्यमेवाशङ्कते। भोगसुखकारणेषु ऋद्धिसमुदयेषु भयवहुलेषु प्रभूतभयेषु। 'कांक्षितैः' इति-अभिलाषितैः। 'परायत्तैः' इति-शब्दादिविषयायत्तैः। मनोहारिषु शब्दादिषु सत्सु सुखमुपजायते भोगवतामिति । तस्मात्तेषु अभिलाषमहाय नित्यम्-आत्यन्तिकम् , अभयम्-अविद्यमानभीतिकम्, आत्मस्थम्-आत्मायत्तं न परायत्तं प्रशमसुखं मध्यस्थस्यारक्तद्विष्टस्योपशान्तकषायस्य यत्तदेवंविधम् । तत्रैव प्रयत्नः कार्य इति ॥ १२२॥
____अर्थ-अनित्य, भयसे परिपूर्ण, और पराधीन भोगोंके सुखोंकी वाँछासे क्या लाभ ! समतारूपी सुख नित्य है, भयसे रहित है और अपनी आत्माके अधीन है । अतः उसमें ही प्रयत्न करना चाहिए।
१-तपरि-१०।२-णामो धर्मः५०।३-मस्तत:-ब०।-मः स्वभावप्री-प०।४-षा जा-ब०।५-याधनफ०।६-मि-१०।६-बत् दक्षिणेत्तरमथुराख्यानकं अन्य-फ०, ब०।७-वृद्धि-फ०१०८-भूतेषु-फ०,१०॥