________________
रायचन्द्रजैनशास्त्रमालायाम् [पञ्चमोऽधिकारः, पञ्चेन्द्रियविषयाः परिणाममपूर्वमुपागतस्य शुभभावनाध्यवसितस्य । अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥ ६२॥ वैराग्यमार्गसंस्थितस्य संसारवासचकितस्य । स्वहितार्थाभिरतमतेः शुभेयमुत्पद्यते चिन्ता ॥ ६३ ॥
टीका–पञ्चभिः कारिकाभिः कुलकम् । अस्य महादोषसञ्चयजालस्य मूलनिबन्धं मौलं कारणं विज्ञाय । तच्छेदने उद्यमः-उत्साहः परो यस्य ‘मयैतन्महाजालं छेतव्यम् ' । दर्शनं तत्त्वार्थश्रद्धानलक्षणम् । चारित्रं सामायिकादि । तपोख्दशभेदमनशनादि । स्वाध्यायः पञ्चप्रकारो वाचनापृच्छनादिः । ध्यानमेकाग्रचिन्तानिरोधलक्षणं धर्म्य शुक्लं च । धर्मादनपेत धर्म्यम् , आज्ञापायविपाकसंस्थानविचयभेदाच्चतुर्विधम् । शुक्लमप्यत्यन्तविशुद्धाशयस्यपृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियालक्षणं चतुर्दा । एभिः सम्यग्दर्शनादिपरिणामैर्युक्तस्य ॥ ५९ ॥ तथा
प्रमत्तयोगात् प्राणव्यपरोपणं प्राणवधः । अनृतभाषणं सद्भुतनिन्हवः ‘नास्त्यात्मा' इति, असद्धृतोद्भावनं 'सर्वगत आत्मा' इति, विपरीतकटुकसावद्यादिवचनं च । गामश्वं भाषमाणस्य विपरीतम् । कटुकं परुषमाक्रोशादि । सावधवचनम् ‘अनेन मार्गेण मृगपशुयूथंगतम् ' इति लुब्धकायाचष्टे । चौर्यबुद्ध्या परस्वमात्मसात्करोति परधनहरणम् । मैथुनं द्वयोोगः सचित्तयोः सचित्ताचित्तयोर्वा । मिथुनस्य भावो मैथुनं स्त्रीपुनपुंसकवेदोदयादासेवनम् । ममत्वलक्षणः परिग्रहः ‘ममेदं स्वम् ' अहमस्य स्वामी इति । ' मूर्छा परिग्रहः (तत्त्वार्थसूत्र १२ सू० अ० ७) इति वचनात् । एभ्यः प्राणिवधादिभ्यो विरतस्य । निशिभोजनं तु परिग्रहलक्षणेनादत्तादानलक्षणेनान्तर्भावितम् । एवं मूलगुणानभिधाय उत्तरगुणानभिधित्सुराह
____ कोटिः-अंशम्, यथा षट्कोटिस्तम्भः षडभिः 'षडंशः' इत्यर्थः । 'न स्वयं हन्ति, नान्येन घातयति, नन्तमन्यं नानुमोदते, ' एतास्तिस्रः कोटयः । तथा 'न स्वयं पचति, न पाचयति, पच्यमानं नानुमोदते,' इत्येता अपि तिस्त्रः कोटयः । तथा ‘न स्वयं क्रीणाति, न क्रापयाति, क्रीणानमन्यमपि नानुमोदते ' इत्येताश्चान्यास्तिस्त्रः । एकत्र समाहृता नव कोटयः पुनरिमा द्विधा भिद्यन्ते-अविशुद्धकोर्टेयो विशुद्धकोटयश्च । आद्याः षर्डविशुद्धकोटयः पाश्चात्यास्तिस्रो भवन्ति विशुद्धकोटयः । उद्गमः-अन्वेषणम्, यथा 'उग्गमं सेअ पुच्छिज्जा' इत्यादि। तेन शुद्ध मुद्गमशुद्धम् । उञ्छमिव उञ्छम् , लूनकेदारपतितव्रीहिकणाधुच्चयनमुन्छ न कस्याचित् कृषीवलादेः पीडाकारि। तथा अकृताकारितासंकल्पिताननुमतमनिसृष्टं कल्पनीयमादीयमानं
१-स्य पृथक्त्वैकत्ववितर्क सविचारसूक्ष्म-प०।-स्यापृथक्त्वैकत्ववितर्कमविचारं सूक्ष्मा-फ० ब०। २ वान्तर्भावितम्-मु० । ३ नन्ति-मु०। ४ अविशुद्धकोटि:-मु०। ५ विशुद्धकोटिश्च-मुः। ६ षडविशुद्ध कोटिः-मु.। ७ विशुद्धकोटि:-मु०। ८ निसृष्टं-मु.।