SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२६ रायचन्द्रजनशास्त्रमालायाम् [दशमोऽधिकारः, धर्मकथा आक्षेपणी विक्षेपणी विमार्गबाधनसमर्थविन्यासा । श्रोतृजनश्रोत्रमनःप्रसादजननी यथा जननी ॥ १८२ ॥ चतुर्विधा धर्मकथाप्रस्तुतेति तच्छेषमाह :-- चार प्रकारकी कथाके शेषांशको बतलाते हैं :-- संवेदनी च निर्वेदनी च धां कथां सदा कुर्यात् । स्त्रीमक्तचौरजनपदकथाश्च दूरात्परित्याज्याः॥ १८३ ॥ टीका-आक्षिपत्यावर्जयत्यभिमुखीकरोति या सा आक्षेपणी कथा शृङ्गारादिप्राया । विक्षिपति भोगाभिलाषाद्या कामभोगेषु वैमुख्यमापादयति सा विक्षेपणी। विमार्गः सम्यग्दर्शनादित्रयविपरीतःसुगतादिप्रदर्शितस्तस्य बाधनं दोषवत्वख्यापनम् । विमार्गबाधने समर्थः शक्तो विन्यासो रचना यस्याः सा विमार्गबाधनसमर्थविन्यासा । शृणोतीति श्रोता जनो लोकः श्रोतृजनस्तस्य श्रोत्रं मनश्च तयोः प्रसादो हर्षों जन्यते यया सा श्रोतृजनश्रोत्रमनःप्रसादजननी। यथा जननी माता हितकारिणी सदुपदेशदायिनी स्वापत्यानां श्रोत्रमनसी प्रसादयति परितोषयति, तथैषापीति सम्बन्धः॥ १८२ ॥ टीका-सम्यग्वेद्यते भयं ग्राह्यते श्रोता यया सा संवेदिनी कथा । नरकगतावुष्णा वेदनाः शीताश्च, न चास्त्यक्षिनिमेषमात्रमपि तस्या वेदनाया विच्छेदः । तत्र तादृशीं वेदना. मनुभवतां जघन्येन दसवर्षसहस्राण्युत्कर्षण त्रयस्त्रिंशत्सागरोपमाणीति । तियग्योनावपि शीतोष्णक्षुतृषातिगुरुभारसंतापजं दुःखं वाहनताडनदमनच्छेदनादि चेति । मानुषेष्वपि काणखअवामनजडवधिरान्धकुब्जविकृताकृतित्वानि ज्वरकुष्टाशोषकासातिसारहृद्रोगवेदनाश्च । तथा प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्यदौर्मनस्यवधबन्धनाभियोगादिदुःखानुभवः । देवेषु चोत्कर्षविशेषदर्शनादात्मनश्चतद्धानेदुःखानुभवः । तथा बलवता देवेनाभियोगादन्येऽल्पपुण्याः करिवृषभाश्वमयूरादिरूपाणि कारिताः सन्तो वाह्यन्ते प्रतिसेव्यन्ते च । तथा च्यवनकाले आयुषिषण्मासावशेषे उपपत्तिस्थानानि वीभत्सानि विकृताकृतीन्यवधिनालोक्य महदशम भजन्ते। अतश्चतुर्विधादपि संसारादुद्विजते मोक्षार्थमेव च घटत इति । निर्वेदं नीयते यया कामभोगेषु सा निवेदनी । इत्वराः कामभोगा न तृप्तिमाधातुमात्मनः पृत्यलाः । सदा क्लिन्नश्च स्त्रीव्रणो दुर्गन्धिरशुचिरत्यन्तजुगुप्सितस्तत्र चारतिरित्येवं पामन इव कंडूपरिगतकण्डूयं मोहोदयात्सुखमिति मन्यते, अतो निर्विण्णः परित्यज्य कामभोगान् निःसङ्गः सिद्धिवध्वाराधने प्रवर्तत इति। एवमेतां संवेदनीं निर्वदनीं च धा कथां सदा कुर्यात्, धर्मादनपेतामित्यर्थः । स्त्र्यादिकथाश्च दूरात् परित्याज्याः । तत्र स्त्रीकथा, रूपयौवनलावण्यवेषभाषाचमणानि योषितां वर्णयति यया सा स्त्रीकथा, भक्तमाहारस्तत्कथा, ओदनव्यञ्जनखण्डखाद्यादिपरिनिष्ठितान्ता भक्तकथा । चौरा मलिम्लुचा अमुना प्रकारेण खात्राणि खनन्ति, इष्टकाश्च गालयन्ति, तालकान्युद्धाटयन्तीति चौर
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy