________________
कारिका १३२-१३३-१३४ ] प्रशमरतिप्रकरणम्
टीका-येन येनाभ्यस्यमानेन कर्मणा परो लोको विद्वेष्टि-क्रुध्यति, भवति चानुपकारी, प्रत्युतापकारे प्रवर्तते । स्वयमपि-आत्मनापि तद्दोषपदं परिहार्यमप्रमत्तेन सता अन्यः कुर्वन् परस्य दृष्टः किञ्चिदप्रियकारणम् , तदवेक्ष्य स्वयमपि तद्दोषस्थानं परिहार्यम् अनेनास्याप्रियं भवति' इति सकलप्रमादरहितेन परित्यजनीयमिति ॥ १३३ ॥
___ अर्थ-जिस जिस दोषसे दूसरे लोग अनुपकारी हो जाते हैं; द्वेष करने लगते हैं, उस दोष स्थानको स्वयं भी सदा प्रयत्नपूर्वक छोड़ देना चाहिए ।
भावार्थ-जिन कामोंके करनेसे दूसरे लोग क्रोधित हो जाते हैं और अपकारतक करनेपर उतारू हो जाते हैं, विना किसी प्रमादके उन कामोंको तुरन्त छोड़ देना चाहिए । अर्थातू साधुने यदि किसी आदमीको कोई ऐसा अप्रिय कार्य करते देखा, जिससे लोग उसके दुश्मन हो गये तो उस कार्यको बुराईका घर जानकर साधुको उससे बचना चाहिए।
'यथैतत्परिहरणीयं तथैतदपि ' इत्याहतथापिण्डैषणानिरुक्तः कायाकल्प्यस्य यो विधिः सूत्रे ।
ग्रहणोपभोगनियतस्य तेन नैवामयभयं स्यात् ॥ १३४ ॥
टीका-पिण्डैषणाध्ययने निरुक्तः-निश्चयेनाभिहितः उद्गमोत्पादनैषणादोषरहितो यो विधिः कल्पनीयाकल्पनीयः-ग्राह्यत्याज्यलक्षणः, सूत्रे-पारमर्षे आगमे । ग्रहणे नियतः परिमितो ग्राह्यो यथोज्झनीयदोषो न भवति, उपभोगे च नियतः द्वात्रिंशतः कवलानां न्यूनानामेवाभ्यवहारः कार्यः । तथाप्यारेऽप्युक्तम्
अद्धमसणस्स सव्वंजनस्स कुज्जा दवस्स दो भाए।
वायपवियारणट्ठा छन्भागं ऊणयं कुज्जा ॥१॥ इत्थञ्च ग्रहणोपभोगनियतस्य कल्पनीयस्य तेन विधिनाऽभ्यवह्रियमाणस्य न जातुचिद् आमयभयम्-अजीर्णजनितव्याधिभयं भवेत् । एवं च मान्द्यादि-दोषाधिकरणपरिहारः धासु च क्रियासु प्रवृत्तेरपरिहाणिः । तस्मादकल्प्यपरिहारेणापरिमितानियत भोगत्यागेन च भुआनस्य न किञ्चिद्दुष्यतीति ॥ १३४ ॥
___ अर्थ-परमागममें पिण्डैषणा नामके अध्ययनमें ग्रहण करने योग्य और त्यागने योग्य रूप जो विधि बतलाई है, उसी विधिसे जो साधु परिमितका ग्रहण और परिमितका उपभोग करता है, उसे कभी रोगका भय नहीं रहता।
-वर्तते-फ०, ब० । २-तदपेक्ष-फ०, ब-। तदपेक्ष्य-मु०। ३-थेदमपि-प० । ४-कल्पाकस्पनफ., ब० । कल्पाकल्पस्व-प० कल्प्याकल्प्यश्च मु.।५-नियमः-फ०, ब०।६-तथाचाया-प.।