________________
ge
धमिंटु प्ररश भाग-२ | मध्याय-3 / सूत्र-२७
अन्ये पुनरन्यथा प्राहुः - “परदारवज्जिणो पंच होन्ति तिन्नि उ सदारसंतुढे । इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वं ।।११२।।" [सम्बोधप्रकरणे ७।४१] इह भावना-परेण इत्वरकालं या परिगृहीता वेश्या तदगमनमतिचारः परदारवर्जिनः, कथञ्चित् तस्याः परदारत्वात्, तथा अपरिगृहीतायाः अनाथकुलाङ्गनाया एव यद् गमनं तदपि तस्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात्, तत्कामुककल्पनया च परस्य भर्नादेरभावेनापरदारत्वात् । शेषास्तूभयोरपि स्युः, तथाहि-स्वदारसंतोषिणः स्वकलत्रेऽपि तदितरस्य तु वेश्यास्वकलत्रयोरपि यदनगरतं तत् साक्षादप्रत्याख्यातमपि न विधेयम्, यतोऽसावत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायाः संभवादनङ्गरतमर्थतः प्रत्याख्यातमेव, एवं परविवाहतीव्रकामाभिलाषावपीति, अतः कथञ्चित् प्रत्याख्यातेषु प्रवृत्तेरतिचारता तेषाम् । ___ अन्ये त्वनङ्गक्रीडामेवं भावयन्ति-स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत् परिहरन् स्वदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेष्वालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति । तथा स्वदारसंतोषवता स्वकलत्राद् इतरेण च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायैर्मथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतः तत्कारणमर्थतोऽनुष्ठितं भवति, तव्रती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुनम्' इति ततो व्रतसापेक्षत्वादतिचार इति ।
ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिर्वा?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरणुव्रतानि न भवन्त्येवेति कथं सा परविवाहकरणलक्षणातिचारकारणमिति, सत्यम, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किञ्च, यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमानं ददत्यपि गीतार्थाः, यथा 'आर्यसुहस्ती' रङ्कस्य सर्वविरतिं दत्तवान् । इदं च परविवाहवर्जनं स्वापत्यव्यतिरिक्तेष्वेव न्याय्यम्, अन्यथाऽपरिणीता कन्या स्वच्छन्दचारिणी स्यात्, ततः शासनोपघातः स्याद्, विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं 'स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे सुतसङ्ख्यापूर्ती वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति ।
अपरे त्वाहुः-'परः' अन्यो यो विवाहः, आत्मन एव विशिष्टसंतोषाभावात् योषिदन्तराणि प्रति