________________
५८
સૂત્રાર્થ
:
धर्मसिंधु प्रकरण भाग - २ / अध्याय - 3 / सूत्र- २५
પરવિવાહકરણ, ઇત્વરપરિગૃહીતાગમન, અપરિગૃહીતાગમન, અનંગક્રીડા અને તીવ્ર કામઅભિલાષ એ પાંચ ચોથા અણુવ્રતના અતિચારો છે. II૨૬/૧૫૯॥
टीडा :
इत्वरपरिगृहीता चापरिगृहीता च इत्वरपरिगृहीतापरिगृहीते, तयोर्गमने इत्वरपरिगृहीताऽपरिगृहीतागमने, ततः परविवाहकरणं च इत्वरपरिगृहीताऽपरिगृहीतागमने चानङ्गक्रीडा च तीव्रकामाभिलाषश्चेति समासः, इह 'परेषां' स्वापत्यव्यतिरिक्तानां जनानां 'विवाहकरणं' कन्याफललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं 'परविवाहकरणम्,' इह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः, तथा 'इत्वरी' अयनशीला भाटीप्रदानेन स्तोककालं परिगृहीता 'इत्वरपरिगृहीता' वेश्या, तथा 'अपरिगृहीता' वेश्यैव (न) गृहीतान्यसत्कभाटिः कुलाङ्गना च अनाथेति, तयो' र्गमनम्' आसेवनम् ‘इत्वरपरिगृहीताऽपरिगृहीतागमनम् ' तथा 'अङ्ग' देहावयवोऽपि मैथुनापेक्षया योनिर्मेहनं च, तद्व्यतिरिक्तानि 'अनङ्गानि ' कुचकक्षोरुवदनादीनि तेषु 'क्रीडा' रमणम् 'अनङ्गक्रीडा', अथवा अनङ्गः कामः, तस्य तेन वा क्रीडा अनङ्गक्रीडा स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननैर्योषिदवाच्यदेशासेवनमित्यर्थः, तथा 'कामे' कामोदयजन्ये मैथुने अथवा 'सूचनात् सूत्रम्' इति न्यायात् 'कामेषु' कामभोगेषु, तत्र कामी शब्दरूपे, भोगा गन्धरसस्पर्शाः, तेषु 'तीव्राभिलाषः' अत्यन्ततदध्यवसायित्वं यतो वाजीकरणादिनाऽनवरतसुरतसुखार्थं मदनमुद्दीपयतीति, एतान् समाचरन्नतिचरति चतुर्थाणुव्रतमिति । इह च द्वितीयतृतीयातिचारौ स्वदार संतोषण एव नेतरस्य शेषास्तु द्वयोरपीति, एतदेव च सूत्रानुपाति, यदाह - "सदारसंतोसस्स इमे पंच अइयारा” [उपासक०] इत्यादि । भावना चेयमत्र - भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुञ्जानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद् भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं त्वनाभोगादिनाऽतिक्रमादिना वाऽतिचारः, परदारवर्जिनो नैतावतिचारौ, इत्वरकालपरिगृहीताऽपरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनाथतयैवापरदारत्वादिति ।।
अपरे त्वाहुः - इत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः, अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवम्- अपरिगृहीता नाम वेश्या, तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवात् कथञ्चित् परदारत्वाच्च भगो वेश्यात्वाच्चाभङ्गो भङ्गाभङ्ग इत्यतिचारः ।।