________________
धर्मसिंधु प्रकरण भाग - २ / अध्याय-3 / सूत्र- 32 शब्दरूपानुपातौ, आनयनप्रेष्यप्रयोगौ च शब्दरूपानुपातौ च पुद्गलक्षेपश्चेति समासः, तत्रानयने विवक्षितक्षेत्राद् बहिर्वर्त्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे 'प्रयोगः ' स्वयं गमने व्रतभङ्गभयादन्यस्य स्वयमेवाऽगच्छतः संदेशादिना व्यापारणमानयनप्रयोगः, तथा 'प्रेष्यस्य' आदेश्यस्य 'प्रयोगो' विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं 'प्रेष्यप्रयोगः, ' तथा 'शब्दस्य' कासितादे 'रूपस्य' स्वशरीराकारस्य विवक्षितक्षेत्राद् बहिर्व्यवस्थितस्याह्वानीयस्याहवानाय श्रोत्रे दृष्टौ ' चानुपातः' अवतारणमिति योऽर्थ:, अयमत्र भावः - विवक्षितक्षेत्राद् बहिर्वर्त्तमानं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा काशितादिशब्द श्रावणस्वकीयरूपसंदर्शनद्वारेण तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दानुपातरूपानुपातावतिचाराविति, तथा 'पुद्गलस्य' शर्करादेर्नियमितक्षेत्राद् बहिर्वर्त्तिनो जनस्य बोधनाय तदभिमुखं 'प्रक्षेपः पुद्गलप्रक्षेप:, ' देशावकाशिकव्रतं हि गृह्यते मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः, प्रत्युत गुणः स्वयं गमने ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात् तदशुद्धिरिति । इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति ।
४
इहाहुर्वृद्धाः–दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात्, प्रति व्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति, अत्र केचिदाहुः - दिव्रतसंक्षेप एव देशावकाशिकम्, तदतिचाराणां दिग्व्रतानुसारितयैवोपलम्भाद्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचरा घटन्ते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति ।।३२/१६५ ।।
टीडार्थ :
आनयनं च तेषामदर्शितत्वादिति ।। खनयन अने प्रेष्य से ज्ञानयनप्रेष्य छे. ते जेनो प्रयोग આનયન-પ્રેષ્યપ્રયોગ છે=આનયનપ્રયોગ છે, પ્રેષ્યપ્રયોગ છે. અને શબ્દ અને રૂપનો અનુપાત તે શબ્દ-રૂપઅનુપાત છે=શબ્દઅનુપાત અને રૂપઅનુપાત છે. આનયન-પ્રેષ્યપ્રયોગ, શબ્દ-રૂપઅનુપાત અને પુદ્ગલક્ષેપ એ પ્રમાણે સમાસ છે=સૂત્રનો સમાસ છે. ત્યાં=પાંચ અતિચારોમાં આનયન વિષયક=વિવક્ષિત ક્ષેત્રથી બહાર વર્તમાન એવા સચેતન આદિ દ્રવ્યનું વિવક્ષિત ક્ષેત્રમાં પ્રાપણ