________________
८७
धलिंद प्ररा भाग-२ | अध्याय-3 / सूत्र-30 सूत्र:
कन्दर्पकौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि ।।३०/१६३ ।। सूत्रार्थ :
કંદર્પ, કૌત્કય, મૌખર્ય, અસમીક્ષ્ય વિચાર્યા વગર અધિકરણ, ઉપભોગનું અધિકપણું એ श्री गुएजतना मतियारी छ. ||30/१५3।। टी:
कन्दर्पश्च कौत्कुच्यं च मौखर्यं चासमीक्ष्याधिकरणं चोपभोगाधिकत्वं चेति समासः, तत्र 'कन्दर्पः' कामः, तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव, मोहोद्दीपकं वाक्कर्मेति भावः, इह च सामाचारीश्रावकस्यादृट्टहासो न कल्पते कर्तुम्, यदि नाम हसितव्यं तदेषदेवेति १। तथा 'कुत्कुचः' कुत्सितसंकोचनादिक्रियायुक्तः, तद्भावः 'कौत्कुच्यम्' अनेकप्रकारमुखनयनादिविकारपूर्विका परिहासादिजनिता भण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र सामाचारी-तादृशानि भणितुं न कल्पन्ते यादृशैलॊकस्य हास उत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति । एतौ च कन्दर्पकौत्कुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयो, प्रमादरूपत्वात् तयोः २। तथा मुखमस्यास्तीति मुखरस्तद्भावः कर्म वेति 'मोखर्यं' धा_प्रायमसभ्यासत्यासंबद्धप्रलापित्वम्, अयं च पापोपदेशव्रतस्यातिचारो, मौखये सति पापोपदेशसंभवात् ३। तथा 'असमीक्ष्यैव तथाविधकार्यमपालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं वास्युदूखल-शिलापुत्रक-गोधूमयन्त्रकादि तद् ‘असमीक्ष्याधिकरणम्' । अत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंस्रप्रदानव्रतस्यातिचारः ४।
तथा 'उपभोगस्य' उपलक्षणत्वाद् भोगस्य च उक्तनिर्वचनस्याधिकत्वम् अतिरिक्तता 'उपभोगाधिकत्वम्,' इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्याद्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे? तत्र स्नाने तावद् गृहे एव स्नातव्यम्, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि झाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरतीति, अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य ५। अपध्यानाचरितव्रते त्वानाभोगादिना अपध्याने प्रवृत्तिरतिचार इति स्वयमभ्यूह्यम्, कन्दर्पादय आकुट्ट्या क्रियमाणा भङ्गा एवावसेया इति ।।३०/१६३।।