SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धरिश भाग-२ | मध्याय-3 / सूत्र-२८ सूत्र: सचित्तसंबद्धसंमिश्राऽभिषवदुष्पक्वाहाराः ।।२९/१६२ ।। सूत्रार्थ : સચિત્ત આહાર, સંબદ્ધ-સચિત્તથી સંબદ્ધ આહાર, સંમિશ્ર સચિત્તથી સંમિશ્ર આહાર, અભિષવસુરાસંધાનાદિ આહાર અને દુષ્પકવ આહાર એ ભોગોપભોગ પરિમાણ વ્રતના અતિચારો छ. २०/१५२|| टी : सचित्तं च संबद्धं च संमिश्रं च अभिषवश्च दुष्पक्वाहारश्चेति समासः । इह च सचित्तादौ निवृत्तिविषयीकृतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगाऽतिक्रमादिनिबन्धनप्रवृत्त्या दृष्टव्यम्, अन्यथा भङ्ग एव स्यात् । तत्र 'सचित्तं' कन्दमूलफलादि, तथा 'संबद्धं' प्रतिबद्धं सचित्तवृक्षेषु गुन्दादि पक्वफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति, तथा 'संमिश्रम्' अर्द्धपरिणतजलादि सद्यःपिष्टकणिकादि वा, 'अभिषवः' सुरासन्धानादि, 'दुष्पक्वाहारश्च' अर्द्धस्विन्नपृथुकादि, एतेऽपि अतिचारा अनाभोगादतिक्रमादिना वा सम्मिश्राद्युपजीवनप्रवृत्तस्य भवन्ति, अन्यथा पुनर्भङ्ग एवेति । . इह भोगोपभोगमानलक्षणं गुणव्रतमन्यत्र भोजनतो गुणव्रतं यदुच्यते तदपेक्षयैवातिचारा उपन्यस्ताः, शेषव्रतपञ्चपञ्चातिचारसाधाद्, अन्यथाऽन्यत्रावश्यकनियुक्त्यादौ कर्मतोऽपीदमभिधीयते, तत्र 'कर्म' जीविकार्थमारम्भस्तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचितकठोरारम्भाणां कोट्टपालगुप्तिपालत्वादीनां वर्जनं परिमाणं वा कार्यमिति । अत्र चाङ्गारकर्मादयः पञ्चदशातिचारा भवन्ति, तदुक्तम् - "इंगाले वणसाडीभाडीफोडीसु वज्जए कम्मं । वाणिज्जं चेव य दंतलक्खरसकेसविसविसयं ।।११३।। एवं खु जंतपीलणकम्मं नेलंछणं च दवदाणं । सरदहतलायसोसं असईपोसं च वज्जेज्जा ।।११४।।" [श्रावकप्रज्ञप्तौ २८७-२८८] भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्-"अङ्गारकर्मे ति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात् ततस्तन्न कल्पते १। 'वनकर्म' यद्वनं क्रीणाति ततस्तच्छित्त्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २। 'शकटीकर्म' यच्छाकटिकत्वेन जीवति, तत्र गवादीनां वध
SR No.022100
Book TitleDharmbindu Prakaran Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages382
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy