________________
अथ आचारोपनिषद
३. तथाकार: सूत्रार्थादिषु कार्येषु, गुरुणाऽभिहितेषु यत् । तथेति वदनं साधो-स्तथाकारः स उच्यते ।।१।।
कृत्याकृत्यविदः पञ्च-महाव्रतपरिस्थितेः । तपसंयमयुक्तस्य, तथाकारोऽविकल्पतः ।। २ ।।
संविज्ञपाक्षिके गीते, तथाकारोऽविकल्पतः । इतरस्मिन् विकल्पेन, युक्तिक्षमे न चापरे ।। ३ ।।
ज्ञानेन वेत्ति गीतार्थः, संवेगेनोपदेष्टि च । तस्मिंस्तु योऽतथाकारो - ऽभिनिवेशफलं हि तत् ।।४।।
प्रत्यपायान् विजानन्ति, ह्याचार्या एव न त्वहम् । । एवम्मत्वाऽविकल्पेन, तथाकारः श्रुते श्रुतः ।। ५ ।।