________________
श्रामण्योपनिषद्
अविसंवादनं वाणी - मनोकायेष्वजिह्मता । सत्यं चतुर्विधं तच्च, नान्यत्र जिनशासनात् ॥३॥
३२
"
प्रियं पथ्यं वचस्तथ्यं यत् तत् सत्यं प्रकीर्तितम् । तत् सत्यमप्यसत्यं स्या- दप्रियं चाहितं च यत् ॥४॥
असत्यं भाषमाणोंऽप्या - राधक उपयोगयुक्' । सत्यं पर्यवसितं तद्, अप्रमादे हि तत्त्वतः ॥५॥
आत्मैव सत्यमात्मैवा सत्यमिति विनिश्चयः । अप्रमत्तो भवेत्सत्यं, प्रमत्तोऽसत्यमेव च ॥६॥
—
क्रोधाल्लोभाद् भयाद्धास्याद्, कस्यचिदुपरोधत: । असत्यकथको गच्छे- न्नरकं वसुराजवत् ॥७॥
१. प्रशमरतौ ॥१७४॥ २. उवउत्तो चत्तारि वि भासाजायाणिवयमाणो आराहगो । ( अर्थतः प्रज्ञापनायाम् ११-३९८ )