________________
१०
श्रामण्योपनिषद् (उपजाति) परोदितं स्याद्यदि सत्यमेव,
क्षन्तव्यमेवालमिह क्रुधेति । यद्वोदितं यत्तदसत्यमेव,
क्षन्तव्यमेवालमिह क्रुधेति ॥१०॥
॥ मृदुता ॥ इन्दिन्दिरायमाणाय, श्रीवीरपादपद्मयोः । गौतमस्वामिने स्वस्ति, साक्षान्मार्दवमूर्तये ॥१॥
सद्गुणा विनयाधीना, अधीनो मार्दवस्य सः । सद्गुणसस्पृहेणातो, भाव्यं हि मार्दवार्थिना ॥२॥
श्रुतं चेद् विनयाधीतं, कथञ्चिद् विस्मृतिं व्रजेत् । उपतिष्ठत्यमुत्रैतत्, केवलज्ञानमावहेत् ॥३॥
मार्दवमर्दनो यस्तु, विद्यान्यक्कारकारकः । विद्यागुरोर्गुणानां च, यो भवेदप्रकाशकः ॥४॥