________________
१२६
पञ्चसूत्रोपनिषद् एवमेकाग्रतया विशुद्धहृदयेन पुनः पुनश्चिन्तयेद् भावयेच्च | एतत्त्वत्रावधेयम् - श्रमणधर्मलक्षणौषधस्यातिमहत्त्वं विचिन्त्य कर्त्तव्यस्तदभिलाषः । स च प्रागुक्तार्हदादिनमस्कारपुरस्सरमेव विधातव्यः । अत एव सूत्रकारेणैतत्क्रमेणैवाऽऽशंसाऽभिहिता। तन्नमस्कारस्य मङ्गलरूपत्वादौचित्यानु-पालनार्थमावश्यकत्वाच्च । अतो हि प्रतिबन्धककर्मविगमम् । ततश्चाशु प्रार्थनासाफल्यम् ।
एतत्साधुधर्मप्राप्तानामवपातकारी स्यात्, तत्पादप्रणामपरस्स्यात्, सबहुमानं तान्नमस्कुर्यात्, तद्विनयं विदध्यात्, तदुपासनां तनुयात्, तदाज्ञाकारी च स्यादिति भावः । धनार्थ्यप्येतद्विधिपुरस्सरमेव धनिनं निषेवमाणोऽवाप्नोति धनम् | भावनीयमत्र-सुव्रतश्रेष्ठिज्ञातम्, येनैतद्विधिना श्रमणोपासनेन क्षपयित्वा चारित्रमोहनीयमवाप्तं श्रामण्यम् । .. ___एवं तीव्रप्रणिधानपूर्वकमभीक्ष्णं धर्मजागरिकाकारणं साधुसेवनं च मुख्यो मोहच्छेदोपायः, सर्वविरत्यध्यवसायभूमिकास्थानीयसुन्दराध्यवसायजनकत्वात्, तदध्यवसायस्य चारित्रमोहनीयशिलोच्चयवज्राशनिसङ्काशत्वाच्च ।
ततश्च विशिष्टेन कर्मक्षयेनावाप्यते श्रमणधर्मयोग्यता - संसारस्य भयङ्करदोषमयी स्थितिरित्यालोक्यावाप्नोति जीवः श्रमणधर्मस्य मोक्षस्य चाभिलाषम् । भवत्यत्यन्तं विरक्तः संसारावारपारात् । न चास्य सञ्जायते यत्किञ्चिद्वस्तुगोचसे ममकारः । अत एव नास्य परद्रव्यतप्तिलक्षण उपजायते सन्तापः । सर्वत्राप्यप्रतिहतो भवत्यस्यानुकम्पापरिणामः । मुच्यतेऽसौ रागद्वेषग्रहात् । वर्द्धते शुभाध्यवसायात् ।