________________
पञ्चसूत्रोपनिषद्
१२५ तदेवंविधाय धर्माय नमस्करोम्यहम् । वन्दे चैनम् । एतद्धर्मप्रकाशकेभ्योऽर्हद्भ्यो नमः । एतद्धर्मं मद्धृदयसात्कृत्य तदनुपालनापरेभ्यो मुनिभ्यो नमः । एतद्धर्मोपदेशकेभ्य आचार्यभगवद्भ्यो नमामि । एष एव धर्मो मोक्षहेतुः सत्यधर्मश्चेत्येवं प्रतिपत्तृभ्यः श्राद्धादिभ्यो नमः ।
सूत्र : इच्छामि अहमिणं धम्म पडिवज्जित्तए सम्म मणवयणकाय-जोगेहिं । होइ ममेअं कल्लाणं परमकल्लाणाणं जिणामणुभावओ | .. ___ इच्छाम्यहमेतद्धर्मं प्रतिपत्तुम्, तदेकपक्षपातत्वान्मम । अभिलषामि सम्यङ्मनोवाक्काययोगैरेतद्धर्मनिषेवणम् । सर्वाङ्गसम्पूर्णधर्माधिगतये करोमि प्रणिधाम् । भवतु मैतद्धर्मावाप्तिलक्षणं कल्याणम् । न च तदवाप्तौ विद्यते मम किमपि सामर्थ्यम् । तथाप्यधिगतानन्तकल्याणानां जिनानामनुभावतोऽस्तु मम तत्प्राप्तिरित्यभिलषाम्यहम् ।
ननु चात्मविशुद्धाध्यवसायमात्रप्राप्य इति चेत् ? तदध्यवसायस्य तदनुभावप्रसूतत्वात् तद्धेतोरेवास्तु किन्तेनेति नीत्या तत्र तद्धेतुव्यपदेशस्य न्यायानपेतत्वादिति गृहाण ।
सूत्र : सुप्पणिहाणमेवं चिंतिज्जा पुणो पुणो | एअधम्मजुत्ताणमववायकारीसिआ । पहाणं मोहच्छेअणमेअं । एवं विसुज्झमाणभावणाए कम्मापगमेणं उवेइ एअस्स जुग्गयं । तहा संसार-विरत्ते संविग्गो भवइ अममे, अपरोवतावी, विसुद्धे, विसुद्धमाणभावे |
इति साहुधम्मपरिभावणासुत्तं समत्तं । .