________________
८५
पञ्चसूत्रोपनिषद्
अथ द्वितीयं सूत्रम्
साधुधर्मपरिभावना धर्मगुणगोचरप्रकृतिसौन्दर्याद्यनुचिन्तनम् । विचित्रविपाकं शुभं कर्म हि धर्मगुणबीजमित्युक्तं प्राक् | तद् बीजमाहितं सत् तत्तद्वैचित्र्यात्तत्कालादिनिमित्तभेदेन विपच्यते । एतदाभिमुख्येन, तत एव धर्मगुणप्रतिपत्तिश्रद्धोपजायते । तस्यामुपजातायां यत् कर्त्तव्यं तदभिधातुमाह - ___ सूत्र : जायाए धम्मगुणपडिवत्तिसद्धाए भाविज्जा एएसिं सरूवं, पयइसुंदरतं, अणुगामित्तं, परोवयारित्तं परमत्थहेउत्तं ।
तथाविधमिथ्यात्वादिकर्मक्षयोपशमेनात्मन्युल्लसति धर्मगुणप्राप्त्यभिलाषः । ततश्च चिन्तनीयं धर्मगुणस्वरूपम् । अनन्तकालीनहिंसादिसङ्क्लिष्टपरिणामविशोधका हि धर्मगुणाः । अहो एषां प्रकृतिसौन्दर्यम् । अहो भवान्तरेऽपि सुसंस्काररूपेणैषां सञ्चरणशीलत्वम् । अन्यपीडापरिहारप्रवणात्मकतयाऽहो तेषां परोपकारित्वम् । परम्परया मोक्षसाधकत्वेनाहो तेषां परमार्थहेतुत्वम् ।
श्रेष्ठं शीघ्रमेव सिद्धिसाधकं च साधुत्वमवाप्तुं तद्भावनया भावयितव्य आत्मा । एतदर्थमपि.कर्त्तव्यं प्राथमिक शिक्षणम् | एतच्चाणुव्रताभ्यासतः सम्भवीत्यतोऽणुव्रतावाप्तिर्दूती महाव्रतानामित्युच्यते । कथन्नामाणुव्रतेषु तथाविधं सामर्थ्य प्रादुर्भवेत् ? एतदर्थं तस्याद्यो विधिरत्रोच्यते -