________________
२४
औष्ट्रिकमतोत्सूत्रसाहू पज्जुवासामि'त्ति काऊण जइ चेइआई अत्थि तो पढमं वन्दती'त्याद्यालापके सामायिककृताऽनन्तरं चैत्यगमनमुक्तं, तत आगत्येर्याप्रतिक्रमणं, तच्च सामायिकसम्बन्धि न भवतीति ज्ञेयम् । अत्र बढ्यो युक्तयो मत्कृततत्त्वतरङ्गिणीगतसभ्याशङ्कानिराकरणवादतोऽवसातव्याः ।१।
चतुर्दश्याः पाते पूर्णिमास्वीकारो, वृद्धौ च प्रथमचतुर्दशीस्वीकारः परम्परागतश्रीउमास्वातिवाचकप्रभृतिवचसा सह विरुद्धः । तद्वचनं त्विदं.. -'क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा ।
श्रीमद्वीरस्य निर्वाणं, ज्ञेयं लोकानुसारतः ॥ इति ॥ समस्तज्योतिःशास्त्रैः सह विरुद्धश्च । युक्तयश्चात्र ग्रन्थान्तरा-त्तत्त्वतरङ्गिणीतो वाऽवसातव्याः ३। ___ मासवृद्धौ तु प्रथममासप्रमाणत्वेन स्वीकारो निशीथचूर्णिदशवैकालिक-वृत्त्यादिना सह विरुद्धः। यतस्तत्र भाद्रपदचतुर्थ्यामेव पर्युषणाकृत्यमुक्तं, वृद्धस्य कालचूलात्वं चेति । अत्राऽपि युक्तयो बढ्यो ग्रन्थगौरवभयान्न प्रतन्यन्तेऽतो ग्रन्थान्तरादवसातव्याः । कियत्यश्च तत्त्वतरङ्गिण्यां मयाप्युक्ता इति बोध्यम् ॥५॥ इत्ययथास्थानक्रियाप्ररूपणरूपोत्सूत्रस्य निराकरणमुक्तम् ॥
अथ वितथवस्तुस्वरूपप्ररूपणारूपोत्सूत्रस्य निराकरणमुच्यते
तत्र श्रीमहावीरस्य षट्कल्याणकप्ररूपणा श्रीहरिभद्रसूरिप्रणीतपञ्चाशकादिभिः सह विरुद्धा । यतस्तत्र श्रीवीरस्य पञ्चैव कल्याणकानि प्रज्ञप्तानि, श्रीअभयदेवसूरिभिश्च तथैव विवृतानि ।
आसाढसुद्धछट्ठी चेत्ते तह सुद्धतेरसी चेव । मग्गसिरकिण्हदसमी वइसाहे सुद्धदसमी य ॥१॥