________________
२३
प्रदीपिका ॥ शोभनमुहूर्ताद्यवलोकनपुरस्सरं नन्दिकरणवासक्षेपादेः शिरोमुण्डनादेश्च प्रसङ्गः स्यात् । किञ्चोच्चारमात्रेण श्राद्धानां क्रियौग्यं प्रकाशयता जिनदत्तेनाऽऽवश्यकादौ सामायिकदण्डकाः स्वयमेव कथं न त्रिरुच्चरिताः ? । महाव्रतोच्चारदृष्टान्तस्यात्राऽपि सम्भवात् ॥२॥ __साधूनामुपधानोद्वहनमावश्यकयोगेन विरुद्धम् । यतः षडावश्यकाऽऽराधनार्थमेवोपधानोद्वहनं क्रियते, तच्चाऽऽवश्यकयोगेनैव सिद्धं । अतस्तदुद्वहनमधिकमेव । किञ्च-गृहितपोविधिनाऽप्यावश्यकमाराधयता जिनदत्तेन चतुःपळपि पोषधग्रहणविधिना कथं नाऽऽराधिता? ॥३॥ इत्याद्यनेकक्रियाप्ररूपणरूपोत्सूत्रस्य निराकरणमुक्तम् ।
अथाऽयथास्थानक्रियाप्ररूपणत्योत्सूत्रस्य निराकरणमुच्यते-तत्र सामायिकोच्चाराऽनन्तरमीर्यापथिकीप्रतिक्रमणं श्रीमहानिशीथादिना विरुद्धं । यतः सूत्र तत्र* - ___'गोयमा ! अपडिकंताए इरियावहिआए न कप्पइ चैव किंचिवि चेइअवंदणसज्झायज्झाणाइअं काउमिति लिखितमस्ति । तस्मात् सामायिकोच्चारात्पूर्वसमय ईर्यापथिकीस्थानं । तच्च स्थानं परित्यज्य सामायिकोच्चारानन्तरं व्यवस्थापनमित्ययथास्थानक्रियेति । इदं च महापातकमिति । नहि कोऽपि भुक्त्वा दन्तधावनं करोति, नवोप्तबीजाङ्करितपृथिवीं हलेनोल्लिखतीत्यादिविपरीतदृष्टान्ताः स्वयं ज्ञेयाः । अथ कश्चिदल्पमतिः कृते सामायिके राजाद्युपरोधेनाऽप्यन्यत्र गन्तुं शक्नोति, इत्यतः प्रथममेव तदुच्चारो युक्तः, इति कुयुक्तिमुद्भावयति । स च पौषधचारित्रोच्चारादिष्वप्येवमेव कर्त्तव्यं, तत्राप्येवंविधकारणस्य सम्भावितत्वादित्यादिप्रतिबन्दीदोषेणैव तिरस्कार्यः । ये च पश्चादीर्याप्रतिक्रान्तावाऽऽवश्यकचूर्यादिकं दर्शयन्ति, ते तु श्रीआवश्यकचूण्र्यैव तिरस्कार्याः । यतस्तत्र 'जाव