________________
प्रदीपिका ॥ सूरितया छत्राउलागच्छपट्टावल्यामपि वर्त्तते, तथाहि-श्रीवर्द्धमानसूरिस्तच्छिष्यौ श्रीजिनेश्वरसूरिबुद्धिसागराचार्यो, तयोर्मध्ये जिनेश्वरसूरेः श्रीजिनचन्द्रसूरिनवाङ्गीवृत्तिकारकश्रीअभयदेवसूरिश्रीजिनभद्रसूरिनामानस्त्रयः शिष्याः । तत्र त्रयाणां मध्ये जिनचन्द्रसूरिः पट्टधरः, तत्पट्टे श्रीप्रसन्नचन्द्रसूरिः, तत्पट्टे श्रीदेवभद्रसूरिः, तत्पट्टे श्रीदेवानन्दसूरिः, तत्पट्टे श्रीदेवप्रभसूरिः, तत्पट्टे श्रीविबुधप्रभसूरिः, तत्पट्टे श्रीपद्मप्रभसूरिरित्यादि' उक्तं च श्रीअभयदेवसूरिसन्ताने श्रीपद्मप्रभसूरिविरचितमुनिसुव्रतचरित्रे
[पूर्वं चंद्रकुले बभूव विपुले श्रीवर्धमानप्रभुः। सूरिर्मंगलभाजनं सुमनसामासेव्यश्रीवृत्तास्पदं । शिष्यस्तस्य जिनेश्वर: समजनि स्याद्वादिनामग्रणीबंधुस्तस्य च बुद्धिसागर इति त्रैवैद्यपारंगमः ॥१॥ सूरिश्रीजिनचंद्रोऽभयदेवगुरुर्नवांगवृत्तिकरः । श्रीजिनभद्रमुनींद्रो जिनेश्वरविभोस्त्रयः शिष्याः ॥२॥ चक्रे श्रीजिनचंद्रसूरिगुरुभिधुंयः प्रसन्नाभिधस्तेन ग्रंथचतुष्टयी स्फुटमतिः श्रीदेवभद्रप्रभुः । देवानन्दमुनीश्वरो भवदतश्चारित्रिणामग्रणीः, संसारांबुधिपारगामीजनताकामेषु कामं सखा ॥३॥* ] यन्मुखाऽऽवासवास्तव्या, व्यवस्यति सरस्वती । गन्तुं नाऽन्यत्र स न्याय्यः, श्रीमान् देवप्रभप्रभुः ॥४॥ मुकुरतुलामंकुरयति वस्तु प्रतिबिम्बविशदमतिवृत्तं । श्रीविबुधप्रभचित्तं न विधत्ते वैपरीत्यं तु ॥५॥ तत्पदपद्मभ्रमरश्चके पद्मप्रभश्चरितमेतत् । विक्रमतोऽतिक्रान्ते वेदग्रहरवि १२९४ मिते समये ॥६॥ इति ।
अथ कश्चिद्वदति-भो ! प्रागुक्ता पट्टावली छत्राउलागच्छसम्बन्धिनी कथं ज्ञाता ?, तदा तं प्रति वाच्यं-भो सुहृत् ! सं. १२९८ वर्षे पत्तननगरे सर्वैराचार्यैः सम्भूय शासनमर्यादाकृते मतकं कृतं । तत्र नवाङ्गीवृत्तिकारश्रीअभयदेवसूरिसन्ताने छत्राउलाश्रीदेवप्रभसूरिशिष्य