________________
औष्ट्रिकमतोत्सूत्रप्रभृतयो भूरयः सूरयः केषाञ्चिदऽपि पट्टेष्वविद्यमाना अद्य यावद्दीर्घसन्तानरहिताश्च दिवं गताः तान् सम्प्रति कोऽप्युत्सूत्रभाषी स्वमतिकल्पितपट्टावल्यां लिखति, न तावतैव ते तत्पूर्वजा भवन्ति, किन्तु 'यदुक्तमार्गानुयायिनो ये, ते तत्पूर्वजा' इति न्यायात् उत्सूत्रभाषिणां पूर्वजास्तु उत्सूत्रभाषिण एव भवन्ति, यथाऽधुनातनखरतराणां जिनचन्द्रजिनपतिप्रभृतयः पूर्वजास्तेषां तु जिनदत्ताचार्यः पूर्वजः, जिनदत्ताचार्यस्य तु पूर्वजो नाऽस्त्येव, तीर्थकृतामिव गुरुपारतन्त्र्याभावेनैव स्त्रीजिना निषेधादिस्पस्य मार्गस्य प्रवर्त्तकत्वात् । अन्यथा लिखितानुसारेण पूर्वजकल्पनायामादिगम्बरपाशचन्द्रान्तानामपि सर्वेषां सुधर्माद्याः पूर्वजा भवेयुः । तच्च न सम्भवति । नहि परस्परस्पद्धिनां नानामार्गाणामेकः सुधर्मस्वामी प्रणेता सम्भवति, अनाप्तत्वप्रसक्तेः। तस्माद्यो यत्प्रणीतमार्गानुलग्नः स तत्पूर्वज इति विचारे क्रियमाणे प्रवचनोक्तपरम्परागतसामाचारीसमाश्रितानां प्रवचनोक्ताः सुधर्माद्याः पूर्वजाः, शेषाणां तु प्रवचनपरम्परापराङ्मुखाणां 'अस्मन्मार्गप्रणेतारः सुधर्माद्या' इति विकल्पवतां सुधर्माद्याः कल्पनारूढाः प्रवचनोक्तेभ्यो भिन्ना एवाऽवसातव्याः। ऋषभाद्यास्तीर्थकृतोऽपि प्रवचनद्वेषिणां असन्मार्गप्रकाशकत्वेन कल्पनारूढा भिन्ना एव । अत एवोत्सूत्रकन्दकुद्दाले 'निह्नवानां कल्पनारूढास्तीर्थकृतोऽप्युत्सूत्रभाषिण' इत्युक्तं । तस्मात् क्वचिल्लिखितोऽपि पूर्वजो न भवति तदाऽऽज्ञावैरिणां, क्वचिदलिखितोऽपि पूर्वजो भवति तदाऽऽज्ञारसिकाणामित्यादि चतुर्भङ्गी विचार्या । किञ्च-नाऽयं खरतराणामपि पट्टावल्यां पट्टधरो वर्तते, किन्तु पार्श्ववर्ती आचार्यः । यतस्तदीयपट्टावल्यामपि क्वचित् नवाङ्गीवृत्तिकर्ता श्रीअभयदेवसूरिन पट्टधर; किन्तु आचार्यः स च प्रभावकतया पट्टे लिखित इति लिखितमस्ति । यथा च पार्श्ववर्ति