________________
.१४
चेतोदूतम्,
त्वद्वत् कः स्यादुपकृतिपरो यत्परेषां हितार्थ
नानादेशान् विहरास विभो ! पुण्यकारुण्यसिन्धुः । कीर्तिस्तोमैः स्फुटमिह दिशो द्योतयन् धर्मऋद्धिं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ।। ५३ ।। प्राप्तोऽलं कापुरुषविभुतां पङ्ककृतिक दशास्यः
पाथोमुग्वा परममहतः पङ्कहर्तुः समस्ते । यद्यप्यग्रे पशुपतिवचांसीव शस्यश्रियेऽसौ
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५४ ॥ अन्तः साम्यामृतरसमहावीचिभिनिर्मले ते
नैव स्थानं हृदि गुणभृते केऽपि दोषा लभन्ते । ताकिं किञ्चित् कचिदपि बहिस्तद्विकृत्या अभावा.. दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥५५॥ उग्रो भीमो विषमनयनश्चर्मभृद्भक्षवृत्तिः
पण्डः कस्मादिह सह मया स्पर्द्धतेऽसावितीव । रोषात्कीर्तिस्तव सुरधुनीच्छद्मनारुह्य शीर्ष
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५६ ॥ हीरक्षीरस्मररिपुशरच्चन्द्रवच्छुभ्रवर्णा ___ युक्ता स्निन्धाञ्जनघननिभैर्वादिदुष्कीर्तिपूरैः । कीर्तिः स्फीता तब यतिपते ! पावनी स्वधुनीव
स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ॥ ५७ ।।
१ लङ्कापुरुषेषु राक्षसेषु विभुतां स्वामिताम् । अलं अत्यर्थ कापुरुषेषु विभतां श्रेष्ठतां च ॥